SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः त्यलंकारविषयेनगम्योत्प्रेक्षावसरः । तत्कीर्तिरित्युदाहरणेतुभ्रमणश्रांतवरूपहेत्वंशे गम्योत्प्रेक्षाभिप्रेता नतुस्वगंगाप्रवेशांशइतिसर्वमवदातं । असंदिग्धमुदाहणांतरमाह। यथावेति । कतिपयेति । वीररुद्रदेवाख्येनृपेवितरणशालिनिदानशालिनिसतिचक्रवा कीइतिमुदंसंतोषभुपयातिप्राप्नोति । इतिकिम् । कृतंवासरस्यावसानंनाशोयेनसक नकगिरिःसुमेरु कतिपयैरल्पैर्दिवसःक्षयंप्रयायादिति । संभावनायांलिङ् ॥ ३८॥ योगेप्ययोगोऽसंबंधातिशयोक्तिरितीर्यते ॥ त्व यिदातरिराजेंद्रस्वर्द्वमान्नाद्रियामहे ॥ ३९ ॥ अत्रस्वर्द्वमेष्वादरसंबंधेपितदसंबंधोवर्णितइत्यसंबंधातिश योक्तिः । यथावा ॥अनयोरनवद्यागिस्तनयोति॒भमाणयोः॥ अवकाशोनपर्याप्तस्तवबाहुलतांतरे ॥ ॥ ३९ ॥ योगेपीति । योगेससप्ययोगवर्णनमित्यर्थः । स्वर्गस्थाद्रुमा कल्पवृक्षादयः स्वई मेष्वितिविषयसप्तमी स्वर्द्धमविषयेयआदरस्तस्यसंबंधेयर्थादार्थषु यद्वा अर्थिषुस्वर्द्ध मविषयादरसंबंधाभावप्रतीतीतत्समानवित्तिवेद्यतयास्वद्रुमेष्वत्यादरविषयखाभावाव गमाद्यथाश्रुतमेवसाधु । अनयोरिति ।अनवद्यानिनिर्दृष्टान्यंगानियस्यास्तथाभूतेइतिसं बोधनं । जंभमाणयोर्बद्धमानयोरनयोःस्तनयोस्तवबाहुलतयोरंतरेमध्येपर्याप्तोऽवकाशो नास्तीयन्वयः । अत्रबाहुलतयोरंतरेस्तनपर्याप्तावकाशसंबंधेपितदसंबंधउक्तः॥३९॥ अकमातिशयोक्तिःस्यात्सहत्वेहेतुकार्ययोः ॥ आलिंगंतिसमंदेवज्यांशराश्चपराश्चते ॥४०॥ अत्रमौायदाशरसंधानंतदानीमेवशत्रवःक्षितौपतंतीतिहे तुकार्ययोःसहत्वंवर्णितं। यथावा॥मुंचतिमुंचतिकोशंभजति चाजतिप्रकंपमरिवर्गः ॥ हमीरवीरवड़ेत्यजतित्यजतिक्षमा माशु॥ अत्रखडस्यकोशत्यागादिकालएवरिपूणांधनगृहत्या गादिवर्णितः॥४०॥ अक्रमेति । क्रमापौर्वापर्यंतदभावोऽक्रमस्तद्रूपस्यातिशयोक्तिरियर्थः । सहलेसम कालखे आलिंगंतिसमंयुगपज्ज्यांमौवी पृथ्वींच परा शत्रवः । मुंचतीति । हमीर संज्ञकस्यवीरस्यखड़े कोशंपिधानमुंचतिससरीणांवर्ग:समूहोपिकोशंभांडारंमुंचति । त थाखड्नेप्रकंपमुल्लासनंभजतिसतिसप्रकृष्टंकपंभजति । एवंखड्नेक्षमांशांतिसजतिसति सोपिक्षमांपृथ्वत्यिजतीत्यर्थः । कोशोस्त्रीकुभलेखङ्गपिधानेऽोघदिव्ययोरित्यमरः अत्रशतप्रसयभंग्यायोगपद्यवर्णनंविशेषः । धनगृहेतिधनसंबंधिगृहेत्यर्थः ॥ ४० ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy