________________
__ चंद्रिकासमेतः
१८७ तत्रसंसृष्टिर्यथा॥ कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृत. शोभया ॥ चलितयाविदधेकलमेखलाकलकलोलकलोलह शान्यया॥अत्रशब्दालंकारानुप्रासयमकयोःसंसृष्टिः । लिंप तीवतमोगानिवर्षतीवांजनंनभः॥असत्पुरुषसेवेवदृष्टिर्निष्फ लतांगता ॥अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणांसंसृष्टिः। आनंदमंथरपुरंदरमुक्तमाल्यंमौलौहठेननिहितंमहिषासुरस्य ॥ पादांबुजंभवतुमेविजयायमंजुमंजीरसिंजितमनोहरमंबि कायाः ॥ अत्रशब्दार्थालंकारयोरनुप्रासोपमयोःसंसृष्टिः॥ कुसुमेति । माघेऋतुवर्णनेपद्यमिदं । अन्ययाकयापिवनितयाचलितयाकलखरोमेख लायाःकांच्या कलकल कोलाहलोविदधे। किंभूतया कुसुमसौरभलोभेनपरिभ्रमता भ्रमराणांसंभ्रमेणखराविशेषेणसंभृतासमृद्धाशोभायस्यास्तया अलकालोलायस्यांताह शीदृग्यस्यास्तथाभूतयेति । आनंदेति । आनंदेनमंथरंयथास्यात्तथापुरंदरेणेंद्रेणमुक्त मर्पितमाल्यंयत्रतादृशंमहिषासुरस्यमौलौमस्तकेहठेननिहितमंजुमनोझमंजीरस्यनूपुरस्य सिंजितंरणितंयत्रतादृशमनोरममम्बिकाया:पादांबुजमंबुजसदृशंचरणंनोऽस्माकंविन यायभवखियन्वयः । अत्रपादांबुजमित्युपमितसमासएव नतुमयूरव्यंसकादिवत्पादए वांबुजमिति । तथाससंबुजप्राधान्येमंजीरासिंजितान्वयायोगादित्युपभैवनरूपकमिति ज्ञेयम् ॥ इतिसंसृष्टिः ॥
अंगांगीभावसंकरोयथा ॥ तलेष्ववेपंतमहीरुहाणांछायास्तदा मारुतकंपितानांशशांकसिंहेनतमोगजानांलूनाकृतीनामिव गात्रखंडाः॥अत्रशशांकसिंहेनेतितमोगजानामितिचरूपको यद्यप्यत्रशशांकएवसिंहस्तमांस्येवगजाइतिमयूरव्यंसकादि समासाश्रयणेनरूपकवच्छशांकासिंहइवतमांसिगजाइवेत्यु पमितसमासाश्रयणेनोपमापिवक्तुंशक्या। तथापिलूनाकती नामितिविशेषणानुगुण्याद्रूपकसिद्धिः। तस्यहि विशेषणस्य प्रधानेमसहान्वयेनभाव्यंनतुगुणेनागुणानांचपरार्थत्वादसंबं धःसमत्वात्स्यादितिन्यायादुपमितसमासाश्रयणेतस्यपूर्वप दार्थप्रधानत्वाच्छशांकस्यतमसांचप्राधान्यंभवेत् । तत्रनवि शेषेणमुरव्यार्थान्वयस्वारस्यमस्ति ॥