________________
१५१"
कुवलयानंदः । राजप्रकोपादिपरिहारार्थमिहनिंदास्तुत्योरन्याविदिततयाले शतएवोद्धाटनेनततोविशेषादिति वस्तुतस्त्विहव्याजस्तुति सद्भावोपिनदोषः। न तावतालेशमात्रस्यव्याजस्तुत्यंतर्भा वःप्रसजते । तदसंकीर्णयोरपिलेशोदाहरणयोर्दर्शितत्वात् । नापिव्याजस्तुतिमात्रस्यलेशांतर्भावःप्रसजते । भिन्नविषय व्याजस्तुत्युदाहरणेषु कस्त्वंवानररामचंद्रभवनेलेखार्थसंवा हको।यद्दमुहुरीक्षसेनधनिनांब्रूषेनचाटून्मृषा'इत्यादिषुदोष गुणीकरणस्यगुणदोषीकरणस्यचाभावात्। तत्रान्यगुणदोषा भ्यामन्यत्रगुणदोषयोःप्रतीतेः ॥कुतस्तर्हिगुणत्वेनवर्णनंतत्राह राजप्रकोपेति । अन्येनाविदितयथास्यादितिक्रिया विशेषणं । लेशतएवेति। तदुक्तंदंडिनैव । लेशमेकेविदुनिंदांस्तुर्तिवालेशतःकृतामिति'। लेशमात्रस्येतिकृत्स्नार्थकं । उदाहरणयोरखिलेष्विसायोः। भिन्नविषयेति । अन्यनि दयान्यस्यस्तुतिरन्यस्तुसान्यनिंदेसेवमादिरूपेयर्थः ॥
विषयैक्येपि 'इंदोर्लक्ष्मत्रिपुरजयिनःकंठमूलंमुरारिर्दिङ्ना गानांमदजलमषीभांजिगंडस्थलानि ॥अद्याप्युर्वीवलयतिल कश्यामलिनानुलिप्तान्याभासन्तेवदधवलितंकिंयशोभिस्त्व दीयैः' इत्यायुदाहरणेषुलेशास्पर्शनात्।तत्रहींदुलक्ष्म्यादीनांध वलीकरणाभावदोषएवगुणत्वेननपर्यवस्यतिकिंतुपरिसंख्या रूपेणततोन्यत्सर्वधवलितमित्यन्योगुणःप्रतीयते । कचिया जस्तुत्युदाहरणेगुणदोषीकरणसत्वेऽपिस्तुतेविषयान्तरमपि दृश्यते । यथा ॥सर्वदासर्वदोसीतिमिथ्यासंस्तूयतेबुधैः॥ ना रयोलेभिरेष्टष्टनवक्षःपरयोषितः॥ अत्रहिवाच्ययानिंदयापरि संख्यारूपेणततोन्यत्सर्वमर्थिनामभिमतन्दीनारादिदीयतेइ तिस्तुत्यंतरमपिप्रतीयते।एवंचयेषूदाहरणेषुकस्तेशौर्यमदोयो डुमित्यादिषुगुणदोषादिषुगुणदोषीकरणादिकमेवव्याजस्तु तिरूपतयावतिष्ठते तत्रलेशव्याजस्तुत्योःसंकरोस्तु । इत्थमे वहिव्याजस्तुत्यप्रस्तुतप्रशंसयोरपिप्राक्संकरोवर्णितः॥१३७॥