________________
कुवलयानंदः
त्यमहाभाष्यकृतांतादृशविग्रहवाक्यप्रणयनमित्याशयः। धर्मस्यानुपादानइति । तत्स्थाने 'अभवत्कब्रवीभिते' इतिपाठइतिभावः ||७|| ८ || ९ || इति श्रीमत्तत्सदुपाख्यरामभव सूरिवरात्मजवैद्यनाथविरचितायामलंकार चंद्रिका ख्यायां कुवलयानंदटीकायामुपमाप्र करणं संपूर्णम् ॥ 11
11
11
॥
. १०
ধ
11
11
॥
उपमानोपमेयत्वंयदेकस्यैववस्तुनः ॥ इंदुरिं दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥ एकस्यैववस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमा नमपिस्वस्यस्वेनसाधर्म्य नान्वेतीतिव्युत्पत्तेः । अनन्वयिनो प्यर्थस्याभिधानंसदृशांतरव्यवच्छेदेनानुपमत्वद्योतनायेंदुरिं दुरिव श्रीमानित्युक्ते श्रीमत्त्वेन चंद्रस्यनान्यः सदृशोस्तीतिसह शांतरव्यवच्छेदो लक्ष्यते । ततश्वस्वेनापिसादृश्यासंभवा दनुपमेयत्वेपर्यवसानं । यथावा ॥ गगनंगगनाकारंसा गरः सागरोपमः ॥ रामरावणयोर्युद्धंरामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति । इहतुगगना दिषुवैपुल्यादेर्धर्मस्यतन्नास्तीतिशेषः ॥ १० ॥
॥
यद्यप्युपमाननिरूपणानंतरंतन्मूलालंकारेषुसंभवत्सादृश्या उपमेयोपमैवप्रथमं निरू पयितुमुचिता नत्वारोपितसादृश्यनिबंधनोनन्वयस्तथापितं द्वितीयसदृशव्यवच्छेदफ लकतया तृतीयसदृशव्यवच्छेद फलिकामुपमेयोपमागपेक्ष्यशीघ्रोपस्थितिकमभिप्रेसप्रथ मंनिरूपयति । उपमानोपमेयत्वमिति । उपमानखेमुपमेयत्वंचेत्यर्थः । द्वंद्वांते श्रूयमाणत्वात् दिनविशेष! । एर्वनैकधातवस्तुनो ग्रनुपमानून येगलंचविश्वनगर त्यन्वयः।असंभवशंकानिरासाय मध्येउदाहरणोक्तिः।ननूक्त लक्षणस्य' भणितिरिवमति र्मतिरिवचेष्टे'त्यादिरशनोपमायामतिव्याप्तिः । तत्रमत्यादेरे कस्यैववस्तुनउपमानत्वस्यो पमेयत्वस्यचवर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानत्वमुपमेयत्वं चेतिविव क्षितं एकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायांमत्यादेश्चष्टादि निरूपितमुपमा नत्वंभणित्यादिनिरूपितंतूपमेयत्वमित्येक निरूपितोपमानोपमेयत्व विरहान्नातिव्या तिरित्युच्यते । तदा' खमिवजलंजलमिवखं ' इत्युपमेयोपमायामतिव्याप्तिः । तत्रैकस्यैवव स्तुनोगगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्यचवर्णनादितिचेन्मैवं । एक
स्यैवेतिविशेषद्योतकैवकारबलेनस्वाश्रय निरूपितयोरुपमानोपमेयत्वयोलीभेनकाप्य