SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः संग्रामांगणमागतेनभवताचापेसमारोपिते देवाकर्णययेनयेन सहसा यद्यत्समासादितं । को दं डेनशराः शरैररिशिरस्तेनापिभूमं डलं तेनत्वं भवताचकीर्तिरतुलाकीर्त्याच लोकत्रयं ॥ अत्रयेनये नसहसायद्यत्समासादितमितिसंक्षेपवाक्यस्थितमेकं समासा दितपदं कोदंडेनशराइत्यादिषुषट्स्वपिविवरणवाक्येषु तत्तदु चितलिंगवचनविपरिणामेनान्वेतीतिदीपकं । शरादीनामुत्तरो तरविशेषणभावादेकावलीचेतिदीपकैका वलीयोगः ॥१०६ ॥ १२६ मालादीपकमिति । मालादीपकंनामालंकारः । एकमितिवाक्यद्वयान्वयीत्यनेनान्वि तं । अतइति । एतावन्मात्रेणदीपसादृश्याद्दी पर्कनतुप्रागुक्तदीपकालंकारः । प्रकृता प्रकृतानांसादृश्यस्यगम्यत्वेतदंगीकारादितिभावः । संग्रामेति । कोदंडेनधनुषाशराः समासादिताः शरैः शत्रुमस्तकं समासादितं तेनशत्रुमस्तकेनापिभूमंडळं तेनभूमंडलेन नपालकः समासादितो भवताकीर्तिरासादिता की र्याचलोकत्रयंसमासादितमित्यनु षंगेणन्वायः ॥ १०६ ॥ इत्यलंकारचंद्रिकायामालादीपकं ॥ उत्तरोत्तरमुत्कर्षःसारइत्यभिधीयते ॥ मधु रंमधुतस्माच्चसुधातस्याः कवेर्वचः ॥१०७॥ यथावा ॥ अंतर्विष्णोस्त्रिलोकीनिवसतिफणिनामीश्वरेलोपि शेतेसिंधोः सोप्येकदेशेतमपिचुलकयां कुंभ योनिश्वकार ॥ धत्ते खद्योतलीलामयमपिनभसि श्रीनृसिंहक्षितींद्रत्वत्कीर्त्तः कर्णनी लोत्पलमिदमपिचप्रेक्षणीयंविभाति ॥ अयं श्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षोयथा । तृणाल्लघुतरस्तूलस्तूलादपिचयाच कः। वायुनाकिन्ननीतोसौमामयंप्रार्थयेदिति ॥ उभयरूपो यथा ॥ गिरिर्महागिरेरेब्धिर्महानब्धेर्नभोमहत् ॥ नभसोपिमहद्ब्रह्मत तोप्याशागरीयसी ॥ अत्रब्रह्म पर्यंतेषु महत्त्वं श्लाघ्यगुणः । प्रक तार्थाशायामश्लाघ्यगुणः ॥ १०७ ॥ सारइति । सारोनामालंकारः । तस्याःसुधातः । अंतरिति । विष्णोरंतरुदरे । त्रयाणांलोकानांसमादारस्त्रिलोकी सोपिविष्णुरपिफणिनांनागानामीश्वरे शेषे शेतेनि द्राति । सोपिशेषोपसिंधेोरेकदेशेतिष्ठतीतिविशेषः। तमपिसिंधुमपिकुंभयोनिरगस्त्यश्च लकर्यांचकारपीतवान् । अयमगस्त्योपिनभसिगगने खद्योतशोभांधते । इदंगगनमपि
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy