SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कुंवलयानंदः ग्रहणकालेसंपर्कातिशयादंतरंगतां प्रापितइयर्थः । अत्रकार्यस्यतापस्य कारणीभूतचंद्र गतदुष्टसंसर्गानुरूपत्वम् ॥ ९१ ॥ ११८ विनानिष्टंचतत्सिद्धिर्यमर्थकर्तुमुद्यमः॥ युक्तो वारणला भोयंस्यान्नतेवारणार्थिनः ॥ ९२ ॥ इदंसममनिष्टस्याप्यवाप्तिश्चेत्यर्थिसंगृहीतस्य त्रिविधस्यापिवि षमस्यप्रतिद्वंद्वि । इष्टावाप्तिरनिष्टस्याप्रसंगाच्च । अत्रगजार्थि तयाराजानमुपसर्पतं तद्दौवारिकैर्वार्यमाणं प्रतिनर्मवचनमुदा हरणं । नचात्रनिवारणमनिष्टमापन्नमित्युदाहरणत्वंशक नीयं । राजद्वारिक्षणनिवारणंसंभावितमितितदंगीकृत्यप्रवृत्त स्यविषमालंकारोदाहरणेष्विवातर्कितोत्कटाऽनिष्टापत्त्यभावा त् । किंच यत्रातर्कितोत्कटानिष्टसत्त्व श्लेषमहिम्ना इष्टार्थप्रति पत्तिस्तत्रापिसमालंकारोऽप्रतिहतएव । उच्चैर्गजैरटनमर्थय मान एवत्वामाश्रयन्निहचिरादुषितोस्मिराजन् ॥ उच्चाटनंत्व मपिलंभय सेतदैवमामद्यनैव विफलामहतांहि सेवा ॥ अत्रयद्यपि व्याजस्तु तौस्तुत्यानिंदाभिव्यक्तिविवक्षायांविषमालंकारस्तथा पिप्राथमिकस्तुतिरूपवाच्यविवक्षायांसमालंकारोननिवार्यते ॥ भेदतरमाह । विनेती । अनिष्टंविनायमर्थंकर्तुमुद्यतस्तत्सिद्धिरपिसममिसनु वृत्त्यायोज्यं । यदर्थमितिपाठेयश्चासावर्थश्चत्यर्थः । युक्तइति । वारणंनिवाणं वार णोगजश्च युक्तोनस्यादपितुस्यादेवेत्यर्थः । शोभतइतिकचित्पाठः साधुरेव । अपि संगृहीतस्यापिशब्द संगृहीतस्य । नर्मवचनंपरिहासवचनम् । अत्रैष्टावाप्तिःश्लेषकल्पि ताबोध्या । इष्टार्थप्रतीतिरितिइष्टार्थखेनप्रतीतिरित्यर्थः । अप्रतिहतइति । अ निष्टस्येष्टाभिन्नत्वेनज्ञानकालेऽनिष्टत्वेनाप्रतिभासादितिभावः । उच्चैरिति । गजैरट तारोहणपूर्वकं गमनम् । इहत्वन्नगरे उषितोस्मिवासंकृतवानस्मि । तदेवम त्मार्थ्यमानमेव उच्चाटनंदूरनिरसनमेव । उच्चैर्गजैरटनंप्रतिमांलंभय से प्रापयसि । हिय स्मात् महतांसेवा विफलानभवतीतिमुखेस्तुतिः । ततोदूरनिरसनरूपार्थातरपरिग्रहे विषमालंकारस्फुनिंदायांपर्यवसानम् । एतेनवैषम्यस्य निंदारूपस्यव्याजस्तु तिविषयत्वेनतयाऽपवादइतिनिरस्तम् । विषमस्यनिंदा मूलखेन तद्रूपत्वाभावादिति ॥ -
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy