________________
११६
कुवलयानंद:
स्य महतापिप्रयत्नेन तात्कालिकेष्टावाप्तिरेवजायते नसार्वकालिकेष्टावाप्तिरितिदर्शितं । द्वितीयश्लोके चंद्रस्य भगवन्मुखल क्ष्मीलिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेषवशात्सूर्य परिकल्प्य तत्किरणस्यकमलमुकुलविकासनं चंद्रानुप्रवेशनंच सुहृत्पाणे भगवन्मुख लक्ष्मीनिधानकोशगृहमुद्रामोचनपूर्वक मततो गृही तभगवन्मुख लक्ष्मीकस्यतया भगवन्मुखलक्ष्म्या चंद्रप्रसाधना थैं चंद्रस्पर्शरूपंच परिकल्प्यैतावतापिप्रयत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेतिदर्शितं । क्वचिदिष्टानवाप्तावपितदवाप्तिभ्रमनिबंधनविच्छित्तिविशेषः यथावा ॥ बल्लालक्षोणिपालत्वदहिंतनगरेसं चरंतीकिरातीरत्नान्यादाय कीर्णान्युरुतरखदिरांगारशंकाकुलांगी ॥क्षिस्वाश्री खंडखंडंतदुपरिमुकुलीभूतनेत्राधमन्तीश्वासामोदप्रसक्तैर्मधुक रपटलैर्धूमशकां करोति । अत्रप्रभूतानिसंपादनोद्योगात्तत्संपा दनालाभेऽपितल्लाभो भ्रमोपन्यासमुखेन निबद्धः ॥ ८९ ॥
।
अत्रेति | आगमसिद्धंतस्माद्दिवाग्निरादित्यंप्रविशतिरात्रावादित्यस्तमितिश्रुति सिद्धं प्रवेशनं तत्कृतं सूर्य कृतं तेषां किरणानामग्नौ प्रतापनरूपं परिकल्प्यउत्प्रेक्ष्य एवंतेषां किरणानामरुणिमानमारक्तसंचारुणिमनुवृत्तिरूपपरिकल्प्य इतिदर्शितमित्यन्वयः । एवमग्रे पिसुहृत्त्वेनसूर्यं परिकल्यतत्किरणस्यचंद्रा नुमवे शंचशास्त्र सिद्धंसु हत्पाणैर्यथोक्त विशेषणविशिष्टस्य चंद्रस्पर्शरूपंच परिकल्प्य इतिदर्शितमित्यन्वयः 1 बल्लाले ति । हे एतन्नामक भूपाल त्वच्छत्रुनगरेसंचंरती भिल्ली प्रकीर्णी निरत्नान्यादाय उरुतरामहतीयाखदिरांगा रस्य शंका भ्रांतिस्तयाच्या कुलांगीतदुपरिश्रीखंड काष्ठशकलं क्षित्वा मुकुलीभूत नेत्रा फूत्कारं कुर्वतीसती श्वासपरिमलेनमसक्तैरागतैर्भ्रमर समूहैर्धूमशं कांकरोतीत्यन्वयः । प्रभूतेति बहुलेयर्थः । एतेषुच सर्वेषूत्पाद्योत्पादकभावरूपसंबं धगर्भेषुप्रभेदेषुकार्यकारणयोःक्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्कचिच्चेष्टोपा दकत्वेनाभिमतस्यकारणस्येष्ठा नवा घ्यनिष्टावाप्तिरूपकार्येणानुरूप्याभावत्सामान्यल क्षणसमन्वयोबोध्यः ॥ ८९ ॥ इसलंकारचंद्रिकायांविषामालंकारः ॥ समंस्याद्दर्णनंयत्रद्वयोरप्यनुरूपयोः ॥ स्वा नुरूपं कृतंसद्महारेणकुच मंडलम् ॥ ९ ॥