________________
१५०
अलकारसूत्रं
[विचित्रयस्य हेतोर्यत् फलं, तस्य यदा तद्विपरीतं भवति, तदा तद्विपरीतफलनिष्पत्त्यर्थं कस्यचित् प्रयत्न उत्साहो विचित्रालङ्कारः । आश्चर्यप्रतीतिहेतुत्वात् । न चायं प्रथमो विषमालङ्कारप्रकारः । स्वनिषेधमुखेन वैपरीत्यप्रतीतेः । विपरीतप्रतीत्या तु स्वनिषेधस्तस्य विषयः । यथा- 'तमालनीला शरदिन्दुपाण्डे' इत्यादौ । इह त्वन्यथा प्रतीतिः । यथा"घेत्तुं मुञ्चइ अहरो अण्णत्तो वळइ पेक्खिउं दिट्ठी।
घडिहुँ विहडन्ति भुआ रआअ सुरअम्मि वीसामो॥" अत्र मोचनवलनविघटनविश्रमाणों यथाक्रमं ग्रहणप्रेक्षणघ. टनरमणानि विपरीतानि फलानि प्रयत्नविषयत्वेन निबद्धानि। त्यर्थः । स्वविपरीतेति । सूत्रे स्वशब्देन स्वीयमुच्यते । तच्च फलसन्निध्युपस्थापितहेतुसम्बन्धि गृह्यत इत्याह-यस्य हेतोरित्यादिना । तस्य हेतोः । तद्विपरीतं फलविपरीतम् । प्रथमः विरूपकार्योत्पत्तिलक्षणः । स्वनिषेधेति । स्वशब्देन हेतुः परामृश्यते । यदि ग्रहीतुमिच्छति, तत् किमिति मुञ्चतीति मोचनस्य हेतोनिषेधमुखेन ग्रहणस्य कार्यस्य वैपरीत्यं प्रतीयते । विपरीतप्रतीत्येति । यदि कृपाणी नीला तत् कथं धवलं यशो जनयतीति कार्यस्य धवलत्वलक्षणवैपरीत्यप्रतीत्या कारणगतस्य नीलत्वस्य प्रतिषेधस्तस्य विषमालङ्कारस्य विषयः । किञ्चात्र विचित्रे कस्यचिद् यत्नाद् विपरीतोत्पत्तिः, विषमे स्वत एवेत्यपि भेदो द्रष्टव्यः । घेतुमित्यादि ।
ग्रहीतुं मुच्यतेऽधरोऽन्यतो वलति प्रेक्षितुं दृष्टिः ।
घटितुं विघटेते भुजौ रताय सुरतेषु विश्रमः ।। भत्र मोचनेति । मोचनादीनां हेतूनामग्रहणादिफलविपरीतानि ग्रहणा
१. ण्ड यशस्त्रिलोकाभरणं प्रसूते इत्यत्र । इह', २. 'णां प्र', ३. 'तफ' क, ख. पाठः ४. सिद्धयुप' ख. पाठः.