________________
१५९
निरूपणम्] सव्याल्यालकारसर्वस्वोपेतम् । चारुत्वात् समाख्योऽलङ्कारः । स चाभिरूपानभिरूपविषयवेन द्विविधः । आद्यो यथा"त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः
कलानां सीमानं परमिह युवामेव भजथः । अयि द्वन्दं दिष्टया तदिह सुभगे! संवदति वा
मतः शेषं चेत् स्याजितमथ तदानीं गुणितया ॥" अत्राभिरूपस्यैव नायकयुगलस्योचितं सङ्घटनमाशंसितम् । द्वितीयो यथा
"चित्रं चित्रं बत बत महच्चित्रमेतद् विचित्रं - जातो दैवादुचितरचनासंविधाता विधाता । यनिम्बानां परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः कबलनकलाकोविदः काकलोकः ॥" अत्रानभिरूपाणां निम्बानां काकानां च समागमः प्रशंसितः। आनुरूप्यात् समत्वव्यपदेशः ।।
विरोधमूलं विचित्रं लक्षयति-- स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्॥४७॥
प्राप्तत्वेन वैचित्र्याभावात् । चारुत्वादिति । तद्विपर्ययस्य सरूपसङ्घटनस्य काचित्कत्वेनासुलभत्वात् । आशंसितमिति । अतः शेषं चेत् स्यादित्यनेन । अत्यन्तानभिरूपनिम्बकाकैलोकसमुचितसङ्घटनजनितविस्मयाक्षिप्तचित्तत्वेन वक्तुश्चित्रं चित्रमित्यादौ न पौनरुक्त्यं दोषाय ॥
विरोधमूलमिति । विरोधगर्भालङ्कारमध्येऽतादृशमपि समं विषमप्रसङ्गेन लक्षयित्वा पुनर्विरोधमूलत्वेन प्रकरणसङ्गतं विचित्रं लक्षयती
१. 'भिह त' क. ख. पाठः. २. 'कसम' ख. पाठः.