SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः कान्यालंकारः। १५ प्रा० पै० अ० १४, प्रा० मा० सू० अ० १५ । पञ्चयोगे षट् । तद्यथा-सं० प्रा० मा० पै० सू० १,सं० प्रा० मा० पै० अ० २, सं० मा० पै० म० अ० ३, सं० प्रा० पै० सू० अ० ४, सं० प्रा० मा० सू० अ० ५, प्रा० मा० पै० सू० अ० ६ । षड्योगे त्वेक एव भेदः ॥ तत्र षड्योगादिकप्रदर्शनायैकार्थश्लेषमेकमुदाहरणमाह अकलङ्ककुल कलालय बहुलीलालोल विमलबाहुबल । खलमौलिकील कोमल मङ्गलकमलाललाम लल ॥ २३ ॥ अकलङ्केति । हे एवंविध, त्वं लल क्रीड । कीदृश । अकलककुल निर्मलान्वय । कलालय कलावास । बहुलीलालोल प्रचुरविलासलम्पट । विमलबाहुबल प्रकटभुजपराक्रम । खलमौलिकील दुर्जनशिरःशको । कोमल कमनीय । मङ्गलकमलाललाम जयलक्ष्मीचिह्न । अत्रैकस्मिन्नर्थे भाषाषट्कस्यापि समान रूपम् ॥ अथ प्रकृतिश्लेषमाहसिद्धयति यत्रानन्यैः सारूप्यं प्रत्ययागमोपपदैः । प्रकृतीनां विविधानां प्रकृतिश्लेषः स विज्ञेयः ॥ २४ ॥ सिद्धयतीति । यत्र प्रत्ययैरागमैरुपपदैश्वानन्यस्तैरेव प्रकृतीनां तु नानाप्रकाराणां सारूप्यं समानरूपता सिद्धथति स प्रकृतिश्लेषः ॥ तत्रोदाहरणमाह परहृदयविदसुरहितप्राणनमत्काव्यकृत्सुधारसनुत् । सौरमनारं कलयति सदसि महत्कालचित्सारम् ॥ २५॥ परेति । देवासुरयुद्धं वर्ण्यते-सौरं सुरसमूहः कर्तृ कलयति कलिं गृह्णाति । युद्धयत इत्यर्थः । क सन्तः । अस्यन्ते क्षिप्यन्ते यत्र तत्सदस्तत्र सदसि युद्धे । सौरं कीदृशम् । परहृदयानि रिपुवक्षांसि विध्यतीति परहृदयवित् । यथासुरहितानां दानवपक्षपातिनां प्राणनं जीवनं मनातीत्यसुरहितप्राणमत् । तथा काव्यं दानवगुरुंकृन्तति पीडयतीति काव्यकृत् । तथा सुधारसममृतरसं नौति स्तौतीति सुधारसनुत् । तथा देवत्वान्न विद्यते नारं नरसमूहो यत्र तदनारम् । तथा महत्प्रभूतम् । तथा काले कृत्यकरणसमये चिच्चैतन्यं ज्ञानं यस्य तत्कालचित् । तथा सहारेणारिसमूहेन वर्तते यत्तत्सारं यथा भवत्येवंकलयति । एष एकस्य वाक्यस्यार्थः ॥ परस्यापि तादृशान्येव पदानि । सौरं सूरिसमूहः सारमुत्कृष्टं वस्तु न्याय्यं वा सदसिसभायां कलयति परिच्छिनत्ति। किं कुर्वत्सौरम् । महत्पूजयत्पूज्यजनम् । तथा परहृदयवित्परचित्तज्ञम् । तथासुरहितानां प्राणवर्जितानां प्राणनेन प्रत्युज्जीवनेन माद्यति हृष्यतीत्यसुरहितप्राणनमत् । तथा काव्यं कविकर्म करोतीति काव्यकृत् । तथा शोभनो धारो मर्यादादिधारणं येषां ते सुधाराः सुजनास्तान्स्यन्ति नन्ति ये ते सुधारसाः खलास्वानुदति प्रेरयतीति सुधारसनुत् । तथा न विद्यत आरमरिसमूहो यस्य
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy