________________
४४
काव्यमाला।
अथ संस्कृतसूरसेनीश्लेषमाह
अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् ।
साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे ॥ २० ॥ अधरेति । मदिरामदेन मधुरा वाणी यस्याः सा संबोध्य भण्यते । ते तवाधरदलमोष्ठपल्लवं तरुणा युवानः साधु यथा भवत्येवं पिबन्तु चुम्बन्तु । कीदृशम् । सामोदं सुगन्धि । किंविशिष्टे । सत्रु पीवरो मांसलः परिणाही परिमण्डलः पयोधरारम्भः कुचाभोगो यस्याः सैवमामन्यते ॥ संस्कृतापभ्रंशश्लेषमाह
क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति ।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥ २१ ॥ क्रीडन्तीति । कश्चित्कंचिदाह-हे मित्र, भ्रमरा मत्ताः सन्तः क्रीडन्ति विचरन्ति । प्रसरन्तीतस्ततो गच्छन्ति । तथा मधु मकरन्दं कमलप्रणयि पद्मसंबद्धं लिहन्त्याखादयन्ति । कीदृशाः । सुष्ठ विभ्रमो येषां ते तथाविधाः । तथा भूरि प्रभूतं रसन्ति शब्दायन्ते । अन्योऽपि मत्त एवंविधो भवति ॥ भाषाश्लेषमुपसंहरनाह
एवं सर्वासामपि कुर्वीत कविः परस्परं श्लेषम् ।।
अनयैव दिशा भाषाख्यादी रचयेद्यथाशक्ति ॥ २२ ॥ एवमिति । यथा संस्कृतभाषाया अन्याभिर्भाषाभिः सह श्लेषः कृत एवमन्यासामपि परस्परं कर्तव्योऽसौ । तद्यथा-प्राकृतभाषाया मागधिकापैशाचीसूरसेन्यपभ्रंशैः सह, मागधिकायाः पैशाचीसूरसेन्यपभ्रंशैः, पैशाच्याः सूरसेन्यपभ्रंशाभ्याम् , सूरसेन्या अपभ्रंशेन । एते दश भेदाः प्राच्यैः सह द्वियोगे सर्व एव पञ्चदश भेदा भवन्ति । तथानयैव दिशानेनैव न्यायेन त्र्यादीस्तिस्रश्चतस्रः पञ्च षड्या युगपच्छृिष्टा भाषा यथासामर्थ्य मेकवाक्यतया भिन्नवाक्यतया वा रचयेत् । तत्र त्रियोगे विंशतिर्भेदाः । यथासं० प्रा० मा० १,सं० प्रा०पै० २, सं० प्रा० सु. ३, सं० प्रा० अ०४, प्रा० मा० पै० ५, प्रा० मा० सू० ६, प्रा० मा० अ० ७, मा० पै० सू० ८, मा० पै० अ० ९, पै० सू० अ० १०, सं० मा० पै० ११, सं० मा० सू० १२, सं० मा० अ० १३, प्रा. पै० सू० १४, प्रा० पै० अ० १५, प्रा० सू० अ० १६, सं० पै० सू० १७, सं० पै० अ० १८, प्रा० सू० अ०, १९, सं० सू० अ० २० । चतुर्योगे तु पञ्चदश । तद्यथा-सं० प्रा० मा० पै० १, सं० प्रा० मा० सू० २, सं० प्रा० मा० अ० ३,प्रा. मा० पै० सू० ४, प्रा० मा० पै० अ० ५, मा० पै० सू० अ०६, सं० मा० पै० सू० ७, सं० मा० पै० अ० ८, सं० पै० सू० अ० ९, प्रा. पै० सू० अ० १०, सं० प्रा० सू० अ० ११, सं० मा० सू० अ० १२, सं० प्रा० पै० सू० १३, सं०