SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १२ काव्यमाला । यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कद-लिकाण्ड मृणालदण्डाः ॥' अत्र शशिशब्देन मुखम्, उत्पलशब्देन नेत्रे, द्विरदकुम्भाभ्यां स्तनौ, कदलिकाण्डशब्देनोरू, मृणालदण्डशब्देन बाहू कवेर्विवक्षितौ । न च शब्दास्तथा वाचकाः, न च मुखादिषु शशिप्रभृतीनि पदानि यौगिकानि रूढानि वेत्यवाचकान्येव । उपमेयपदाप्रयोगाच्च रूपक भ्रान्तिरपि नास्ति । तथा दशरथ इति वक्तव् पङ्क्तिरथशब्दोऽप्यवाचकः संज्ञाशब्दत्वात्तस्य । न च दशसंख्यार्थो रथार्थो वा घटते । येन यौगिकरूढपदं स्यात् । तथा आम्रदेवादिषु चूतामरादयः शब्दा अवाचका इति । सुक्रमग्रहणं दुष्टक्रमनिवृत्त्यर्थम् । यथा— 'वदन्त्यपर्णामिति तां पुराविदः' इत्यत्र हि इतिशब्देन पुराविदां संबन्धः, न त्वपर्णायाः । अपर्णायास्तु संबन्धे द्वितीया न स्यात् । यथा - ' क्रमादमुं नारद इत्यबोधि सः' इत्यादौ हि वस्तुस्वरूपमात्रमवस्थापयतीति । लिङ्गार्थमात्रे प्रथमैव न्याय्या न द्वितीया । क्वापि च शब्दमात्रप्रतिपादनेन प्रथमापि न भवति । यथा—“गवित्ययमाह' इति । पुष्टार्थग्रहणमपुष्टार्थनिवृत्त्यर्थम् । एकशब्दप्रतिपाद्यार्थे निरभिप्रायबहुशब्द प्रयोगादपुष्टार्थता जायते । यथा - ' पातु वो गिरिजामाता द्वादशार्धार्धलोचनः । यस्य सा गिरिजा माता स च द्वादशलोचनः ॥' इत्यत्र न त्रिलोचनशब्दाद्वादशार्धार्धलोचन इत्यादिभिः शब्दैरधिकोऽर्थः प्रतिपाद्यत इत्यपुष्टार्थता । शब्दग्रहणमपशब्दनिरासार्थम् । अपशब्दनिरासश्च यद्यपि व्युत्पत्तिद्वारेणैव कृतस्तथापि महाकवीनामप्यपशब्दपातदर्शनात्तन्निरासा दरख्यापनाय पुनरभियोगः । तथाहि पाणिनेः पातालविजये महाकाव्ये – 'संध्यावधूं गृह्य करेण' इत्यत्र गृह्येति क्त्वो ल्यबादेशः । तथा तस्यैव कवेः — 'गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः । अपश्यती वत्समिवेन्दुबिम्बं तच्छ्र्वरी गौरिव हुं करोति ॥' इत्यत्र 'पश्यती' इदं लुप्त 'न्ती' नकारं पदम् । तथा च भर्तृहरेः - 'इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते' इत्यत्रात्मनेपदम् । यथा वा कालिदासस्य —‘अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥' इत्यत्र हि अनाराध्येति भिन्नकर्तृ पूर्वकाले क्त्वा । यस्मादारा-धनस्य राजा कर्ता भवनस्य प्रजेति । यथा च भारवेः – ' गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ।' इत्यत्रात्मनेपदमस्वाङ्गे । एवमन्येषामपि । चारुग्रहणं बर्बीत्यादिदुःश्रवशब्दनिवृत्त्यर्थमिति । यथेवमेवंगुणयुक्ते काव्ये प्रसादगुणयोगात्प्रसाद एव काव्ये गुणः समाश्रितो भवति, न तु गाम्भीर्यमित्याह — क्षोदक्षमं प्रेरणसहं वाक्यं प्रयुञ्जीत । गाम्भीर्ययुतमिति तात्पर्यार्थः । किमेतावद्गुणमेव वाक्यमित्याह- अक्षूणमिति । समस्तदोषत्यागात्समस्तगुणसंग्रहाश्च परिपूर्णम् । एतेन 'असमर्थ -- मप्रतीतं विसंधि' इत्यादि वक्ष्यमाणदोषत्यागाच्च वाक्यस्य प्रयोगार्हत्वमावेदितम् ॥ अथ पूर्वत्रासंगृहीतवाक्यगुणप्रतिपादनार्थमाहरचयेत्तमेव शब्द रचनाया यः करोति चारुत्वम् । सत्यपि सकलयथोदितपदगुणसाम्येऽभिधानेषु ॥ ९ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy