SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११२ यावत्करणात् 'छिण्णमुहे दिण्णं सुक्कं समाणं मिलायमाणं चिट्टइत्ति दृश्यम् । 'एव'त्ति 'एवामेव धण्णस्स अणगारस्स सीसं सुक्कं लुखं निम्मंसं अट्ठिचम्मछिरत्ताए पण्णायइ नो चेव णं मंससोणियत्ताए'त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिह्वोष्ठवर्णकेष्वस्थीति पदं न भण्यते अपि तु 'चम्मछिराए पण्णायइत्ति वक्तव्यमिति । पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः । पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह[ पृ० ७९ ] (३-१५) 'धण्णे णमित्यादि धन्योऽनगारो शंकारो वाक्यालङ्कारार्थः । किंभूतः ?-शुष्कण मांसाद्यभावात् 'भुक्खेणं'ति बुभुक्षायोगात् रूक्षेण पादजङ्घोरुणाऽवयवजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति । तथा 'विगयतडिकरालेणं कडिकडाहेणं'ति विकृतंबीभत्सं तच्च तत्तटीषु-पार्श्वेषु करालं-उन्नतं क्षीणर्मासतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाई-कच्छपपृष्ठं भाजनविशेषो वा कटीकटाहं तेन लक्षित इति गम्यते । एवं सर्वत्रापि । 'पिट्ठमवस्सिएणं'ति पृष्ठं-पश्चाद्भागमवाश्रितेन तत्र लग्नेन यकृत्प्लीहादीनामपि क्षीणत्वात् , उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन । 'जोइज्जमाणेहिं ति निर्मासतया दृश्यमानैः 'पांसुलिकडएहिंति पाङस्थिकटकैः, कटकता च तेषां वलयाकारत्वात् । 'अक्खसुत्तमाले इ वत्ति अक्षाःफलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा मालाआवली या सा तथा सेव गण्यमाननिर्मासतयातिव्यक्तत्वात्, पृष्ठकरण्डकसन्धिभिरिति प्रतीतं। तथा गङ्गा
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy