SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तरङ्गभूतेन-गङ्गाकल्लोलकल्पेन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-वंशदलमयस्य देशभागो-विभाग इति वाक्यमतस्तेन । तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिलकडाली विव' कटालिका-अश्वानां मुखसंयमनो पकरणविशेषो लोहमयस्तद्वल्लम्बमानाभ्यामग्रहस्ताभ्यां बाह्वोरमभूताभ्यां शयाभ्यामित्यर्थः । 'कंपणवाइओ इवत्ति कम्पनवातिकः-कम्पनवायुरोगवान् ‘वेवमाणीए ति वेपमानया कम्पमानया शीर्षघटया-शिरःकटिकया लक्षितः प्रम्लानवदनकमलः प्रतीतम् । 'उब्भडघडमुहे'त्ति उद्भटं विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकवदेव मुखं यस्य स तथा । 'उब्बुड्डनयणकोसे त्ति 'उब्वुड्डुत्ति अन्तःप्रवेशितौ नयनकोशौ-लोचनकौशको यस्य स तथा 'जीवंजीवेणं गच्छइ' जीववीर्येण न तु शरीरवीर्येणेत्यर्थः, शेषमन्तकृद्दशावदिति ॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः समूह्य भणतो यज्जातमाग पदम् । वृत्तावत्र तकत् जिनेश्वरवचोभाषाविधौ कोविदः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ॥१॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । द्वाविंशतिशतमिति, चतुणां वृत्तिसङ्ख यया ॥२॥ अनुत्तरोपपातिकाख्यनवमाङ्गप्रदेशविवरणं समाप्तमिति ।
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy