SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १०९ [ पृष्ट० ७५ ] " (२) 'काकजंघा इव 'त्ति काकजङ्घा - वनस्पतिविशेषः, सा हि परिदृश्यमानस्नायुका स्थूलसन्धिस्थानाच भवतीति । तया जङ्घयोरुपमानम् । अथवा काको वायसः कङ्कः ढेणिकालिके च पक्षिविशेषौ तजङ्घा च स्वभावतो निर्मासशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति । (५) 'कालिपोरिति काकजङ्घावनस्पतिविशेषपर्व मयूरढेणिकाकालिके पक्षिविशेषौ अथवा ढेणिकालः- तिड्डुः । ( ८-९ ) 'बोरीकरील्ले इ' बदरी - कर्कन्धूः करीरं - प्रत्यग्रं कन्दलं, शल्यकी शाल्मली च वृक्षविशेषौ पाठान्तरेण सामकरिल्ले इ वा तत्र च श्यामा- प्रियङ्गुः । ( ११ ) ' कडिपत्तस्से 'त्ति कटी एव पत्र - प्रतलत्वे - नावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्ट्रपाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन युतप्रदेशस्य साम्यं, 'जरग्गपाए इ' जरद्रवपाद, 'उदरभायणस्स'त्ति उदरमेव भाजनं क्षाममध्यभागतया पिठरोधुदरभाजनं तस्य । (१५) 'सुक्क दिए इ वा' इति शुष्कःशोषमुपगतो दृतिः - चर्ममयजलभाजन विशेषः । ' भज्जणयकभल्लेत्ति चणकादीनां भर्जनं पाकविशेषापादनं तदर्थं यत्कभल्लं-कपालं घटादिकर्परं तत्तथा । 'कट्ठको लंबए इ' शाखिशाखानामवनतमयं भाजनं वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्टकोलम्बः परिदृश्यमानावनतहृदयास्थिकत्वात् । 'एवामेवोदरं सुक्कं लुक्खं निम्मंस' मित्यादि पूर्ववत्, 'पासुलियकडयाणं' ति पांशुलिका:पावस्थीनि तासां कटकौ-कटौ पांशुलिकाकटौ तयोः (१८) ' थासयावली इव'त्ति स्थासका दर्पणाकृतयः स्फुर 6 -
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy