SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ विमनाः' अविगतचित्ता अशून्यमना इत्यर्थः, अकलुषः क्रोधादिकालुण्यरहितत्वात् , 'अविषादी' विषादवर्जितः, 'अपरितन्तयोगी' अविश्रान्तसमाधिः, 'जयणघडणजोगचरित्ते'त्ति यतनं-प्राप्तेषु योगेषूद्यमकरणं घटनं चअप्राप्तानां तेषां प्राप्त्यर्थ यत्नः, यतनघटनप्रधाना योगाः संयमव्यापारा मनःप्रवृत्तयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा । 'अहापजत्तं'त्ति यथापर्याप्तं-यथालब्धमित्यर्थः। 'समुदाणं'ति भैक्ष्यं । (१८) 'बिलमिवे'त्यादि, अस्यायमर्थः-यथा बिले पन्नगः पासिंस्पर्शनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशनिव रागविरहितत्वादाहारयति-अभ्यवहरतीति । [ पृष्ट० ७४ ] (८) 'तवरूवलावण्णे' त्ति-तपसा-करणभूतेन रूपस्य-आकारस्य लावण्यं-सौन्दर्य तपोरूपलावण्यमभूत् । (८) शुष्कछल्लो-शुष्कत्वक् काष्ठस्य सत्का पादुका काष्ठपादुका प्रतीता'जरग्गओवाहण'त्ति जरत्काजरती जीर्णेत्यर्थः सा चासावुपानच्चेति जरत्कोपानत् । (१०) 'अहिचम्मछिरत्ताए'त्ति अस्थीनि च चर्म च शिराश्च-स्नायवो विद्यन्ते ययोस्तौ तथा तद्भावस्तत्ता तथा अस्थिचर्मशिरावत्तया प्रज्ञायते यदुत पादावेताविति न पुनर्मासशोणितवत्तया तयोः क्षीणत्वादिति । (१२-१३) 'अयमेयारूवे तवरूवलावण्णे होत्था से जहा नामए'त्ति प्रत्यालापकं द्रष्टव्यं, (१३) 'कल'त्ति कलायो धान्यविशेषस्तेषां 'संगलिय'त्ति फलिका मुद्दा माषाश्च प्रतीताः। (१४) तरुणय'त्ति अभिनवा कोमलेत्यर्थः ।(१५) 'मिलायमाणि त्ति म्लायन्ती-म्लानिमुपगता ।
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy