________________
१०७ [ श्रीचन्द्रगच्छीयश्रीमदभयदेवविरचितानुत्तरौपपातिकदशावृत्तिः ।। [ पृष्ट० ६५ ]
अथानुत्तरौपपातिकदशासु किञ्चिद्व्याख्यायते । तत्रानुत्तरेषु विमानविशेषेषूपपातो जन्म अनुत्तरोपपातः स विद्यते येषां तेऽनुत्तरौपपातिकास्तत्प्रतिपादिका दशाः। दशाध्ययनप्रतिबद्धप्रथमवर्गयोगादशाः ग्रन्थविशेषोऽनुत्तरौपपातिकदशास्तासां च सम्बन्धसूत्रं । तयाख्यानं च ज्ञाताधर्मकथाप्रथमाध्ययनादवसेयं शेषं सूत्रमपि कण्ठ्यं ॥ [ पृष्टः ७२
(५) नवरं तृतीयवर्गे 'वुत्तपडिवुत्तयत्ति प्रव्रज्याग्रहणश्रवणमूच्छितोत्थिताया मातुः पुत्रस्य च परस्परं प्रव्रज्याग्रहणनिषेधनविषया तत्समर्थनविषया चोक्तिप्रत्युक्तिरित्यर्थः ।(६-७) महाबलो भगवत्यां। थावञ्चापुत्रःपश्चमे ज्ञाताध्ययने । (१७)तथा 'आयंबिलं ति शुद्धौदनादि । (१९) 'संसहूं'ति संस्कृष्टहस्तादिना दीयमानं संसृष्टम् । 'उज्झियम्मियं 'ति उज्झितं-परित्यागः स एव धर्म:-पर्यायो ययास्ति तदुज्झितधर्मिकं. (0 'समणे'त्यादि श्रमणो-निर्ग्रन्थादिः ब्राह्मणः-प्रतीतः अतिथि:भोजनकालोपस्थितः प्राघूर्णकः कृपणो-दरिद्रः वनीपको याचकविशेष.. [ पृष्ट० ७३
(९-१० ) ' अब्भुजयाए'त्ति अभ्युद्यताः-सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया, 'पयययाए' त्ति प्रयतया प्रकृष्टयत्नवत्या, ‘पयत्ताए'त्ति प्रदत्तया गुरुभिरनुज्ञातयेत्यर्थः. 'पग्गहियाए'त्ति प्रगृहीतयाप्रकर्षणाभ्युपगतया (१२-१४)अदीनः अदीनाकारयुक्त इत्यर्थ: अ,