SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०६ वाडीओ महालए सव्वओभद्दे ॥३॥" महासर्वतोमद्रायां द्वितीयायां पंक्तौ कर्तव्यतायां प्रथम-आदौ चतुर्थ -प्रथमपंक्तयपेक्षया चतुर्थस्थानवतिनं, यथा प्रथमपंक्तौ चतुष्ककस्ततः क्रमेणान्यानवस्थाप्य यावञ्चरमं यथा सप्तकस्ततोऽनन्तरं यदूनं पंक्तस्तदादितः पूरयेत् । एवं च सप्त परिपाट्यः-पंक्तयः पूरयितव्याः । 'महालये'त्ति महति सर्वतोभद्रे-सर्वतोभद्रप्रतिमायामिति । [ पृष्ट ६२. ] (१२) मुक्तावली सुज्ञानैव । नवरं तस्यां चतुर्थ । ततः षष्ठादीनि चतुस्त्रिंशत्तमपर्यन्तानि चतुर्थभक्तान्तरितानि । ततश्चतुर्थ । ततः प्रत्यावृत्त्या द्वात्रिंशत्तमादीनि षष्ठान्तानि । ततश्चतुर्थ च करोति । एवं चेयं तपसि इयत्प्रमाणा भवति-षोडशसङ्कलनादिनाः १६६ पंचदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ६९ । एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति । सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । [ पृष्ट० ६४. ] (३-४ )अथानन्तरोदितानां काल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-'अट्ट य' गाहा, अष्ट च वर्षाण्यादिं कृत्वा एकोत्तरिकया-एकोत्तरतया क्रमेण यावत सप्तदश तावच्छेणिकभार्याणां पर्याय इति ॥ यदिह न व्याख्यातं तज्ज्ञाताधर्मकथाविवरणादवसेयम् ॥ एवं च समाप्तमन्तकृद्दशाविवरणमिति ॥ अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि सद्भिरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः ॥१॥ इत्यन्तकृद्दशावृत्तिः सम्पूर्णा ॥
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy