________________
१०५
;
शतं तपोदिनानां । पंचविंशतिस्तु पारणक दिनानां एवं शतद्वयं दिनानामेकस्यां पारिपाठ्यां भवति । तच्चतुष्टये त्वेतदेव चतुर्गुणमिति । वाचनान्तरे प्रतिमात्रयस्य लक्षणगाथा उपलभ्यन्ते । यथा-" आई दोण्ह चउत्थं आई भदोत्तराए बारसमं । बारसमं सोलसमं वीसइमं चेव चरिमाई ॥ १ ॥ " आदिः प्रथमं तपः द्वयोः क्षुद्र सर्वतोभद्र महासर्वतोभद्रयोः प्रतिमयोश्चतुर्थ- एकोपवासः, तथा आदि : - आद्यं तपो भद्रोत्तरायां- तृतीयप्रतिमायां द्वादशं उपवास पंचकं, ततः क्रमेण द्वादशं उपवासपञ्चकं षोडशं-उपवासलप्तकं विंशतितमं चैव-उपवासनवकर एवं च चरमा सर्वान्तितपांसि शेषाणि तु क्रमेण स्थाप्यन्त इति तपत्रयेऽपि प्रथम पंक्तिरचनेति । अथ द्वितीयादिपंकरचनार्थमाह"पढमं तइयं तो जाव चरिमयं ऊणमाइओ पूरे | पंच य परिवाडीओ खुड्डगभद्दुत्तराए य : २ ॥ प्रथमपंक्तौ 'तइयं 'ति तृतीयमङ्कं पढसं-द्वितीयपंक्तिरचनायां प्रथमं स्थापयेत् । स च क्षुद्रसर्वतोभद्रायां त्रिको भवति । भद्रोत्तरायां तु सप्तकः । 'तो'त्ति ततोऽनन्तरं क्रमेणोत्तरान् स्थापयेद् यावच्चरम् । स च सर्वतोभद्रायां चतुकानन्तरः पंचको भवति । भद्रोत्तरायां कान्तरी नवक इति । ततश्चरमानन्तरं यदूनं कोष्टकाजानं तदादितः - एककादेरारभ्य पूरयेदिति, एवं चरमात्परत एकको द्विश्च सर्वतोभद्रायां । इतरस्यां तु पंचकः षट्कश्चेति द्वितीयपंक्तिस्थापना । एवमेवोपरितन्यपेक्षयाऽधस्तन इत्येवं सर्वाः पंच परिपाट्याः - पंकयो रचनीयाः । खुइति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायां चेति । गाथार्थश्चायं प्रागुक्तयन्त्रकादवसेय इति । अथ महासर्वतोभद्राया द्वितीया दिपंक्तिरच नार्थमाह-' पढमं तु चउत्थं जाव चरिमयं ऊणमाइओ पूरे । सत्त य परि