________________
१०३
डितमुच्यते । सिंहो हि गच्छन् गत्वा गत्वा अतिक्रान्तदेशमवलोकयति । एवं यत्र तपसि अतिक्रान्तं तपोविशेषं पुनः पुनरासेव्यातनं तत्तत् प्रकरोति तत्सिहनिष्क्रीडितमिति । इह च एकद्वयादय उपवासाश्चतुर्थषष्ठादिशब्दवाच्याः । एतस्य च रचनैवं भवति । एकादयो नवान्ताः क्रमेण स्थाप्यन्ते । पुनरपि प्रत्यागत्य नवादय एकान्तास्ततश्च द्वयादीनां नवान्तानामग्रे प्रत्येकमेका. दयोऽष्टान्ताः स्थाप्यन्ते । ततो नवोद्यकान्तप्रत्यागतपउक्तयां अष्टादीनां द्वयन्तानामादौ सप्तादय एकान्ताः एकान्ताः स्थाप्यन्त इति । स्थापना चेयं-१२।१३।२।४। ।३।५।४।६।५।७।६।८।७।९।८।९।९।७।८।६।७५।६।४।५।३।४।२।३ ।।२।१॥ दिनसङ्ख्या चैवम् । इह द्वे नवकसङ्कलने । तत एका ४५ । पुनः ४५ । अन्त्या चाष्टसङ्कलना ३६ । अपरा च सप्तसङ्कलना २८ । तथा पारणकानि ३३ । तदेवं सर्वसङ्ख्या १८७। एते चैवं षण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः। [ पृष्ट० ५८. ]
(९) एवं महासिंहनिष्क्रीडितमपि। नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते। ततश्च द्वयादीनां षोडशान्तानाम प्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषु त्वेकान्तेषु पञ्चदशादीनां यन्तानामादौ प्रत्येकं चतु शादयः एकान्ताः स्थाज्यन्ते । दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसकलना १०५ पारणकानि ६१ सर्वाग्रं ५५८ ।