SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०१ आदानानि वा बन्धहेतव इत्यर्थः । इति कर्मायतनानि कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिं ' ति तत्र कर्मापतति आत्मनि संभवति तानि तथा ।, [पृष्ट० ५३. ] (२२) अष्टमे तु किमपि लिख्यते-'रयणावलि' त्ति रत्नावली आभरणविशेषः । रत्नावलीव रत्नावली । यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्यलता च भवति, एवं यत्तपः पट्टादावुपदश्यमानमिममाकारं धारयति तद्रत्नावलीत्युच्यते । तत्र चतुर्थमेकेनोपवासेन षष्टं द्वाभ्यामष्टमं त्रिभिः। ततोऽष्टौ षष्टानि,तानि च स्थापनायां चत्वारि चत्वारि कृत्वा पत्रियेण नव कोष्टकान् कृत्वा मध्यकोटे शुन्यं विधाय शेषेस्वष्टास्वष्ट षष्ठानि रचनीयानि। ततश्चतुर्थादि चतुस्त्रिंशत्तमपर्यन्तं । चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः। ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत्वष्टानि, एतेषां स्थूलमणितया कल्पितत्वात् , एतानि चोत्तरार्धेण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवाऽष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शुन्यं कृत्वा शेषेषु चतुस्त्रिंशत्वष्ठानि स्थापनीयानीति । एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनरप्यष्ट च षष्टानि। स्थापना त्वेषां पूर्ववत् । पुनरप्यष्टमषष्ठचतुर्थानीति । प्रथमायां परिपाट्यां सर्वकामगुणितं पारयति। तत्र सवें कामगुणा अभिलषणीया रसादिगुणाः सञ्जाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः। भोजन मति गम्यते । पारणकसंग्रहगाथा-' पढमंमि सम्वकामं पारणयं बीइए
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy