________________
19
[ पृष्ट० ३१. ]
(१२) 'जाव किमंग पुण' इत्यत्र 'उदुम्बरपुप्फंपिव दुल्लभा सवणयाए किमंग पुण पासणयाए 'त्ति द्रष्टव्यमिति ।
[ पृ० ३२. ]
(२) 'आलित्ते ण'मित्यादाविदं दृश्यम् - आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानां प्रियैः स्वयमेवात्मानं प्रवाजितुं यावत् आचारगोचरविनय वैनयिकचरणयात्रामात्रप्रवृत्तिकं धर्ममाख्यातुमिति, यात्रामात्रार्थ वृत्तिर्यत्र स तथा तम् । (८) 'ईरियासमिया' इत्यादौ यावत्करणाद्ग्रन्थान्तरेषु 'भासासमिया' इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुसिंदिया गुत्तबंभचारिणी ति द्रव्यं । (१०) बहू' इत्यत्रैवं द्रष्टव्यं - 'छडट्ठमदलमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहिं अप्पाणं भावे माणा विहरइत्ति । (१६) ' जस्सट्टाए कीरइ नग्गभावे ' इत्यादौ यावत्करणादिदं दृश्यं -' मुंडभावे केसलोए बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेज्जाओ फलगलसिज्जाओ परघरप्पवेसे लद्वावलडाई माणीवमाणाई परेसि हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ उच्चावया विरूवरूवा बावीस परीसहोवसग्गा गामकंटगा अहियासिज्जंति तमट्ठमाराहेइति कण्ठ्यं । नवरं 'हीलना' अनभ्युत्थानादि । 'निन्दना' स्वमनसि कुत्सा । 'खिंसणा 'लोकसमक्ष एव जात्याद्युद्घट्टनं । 'तर्जना' शास्यसि रे जाल्मेत्यादि भणनं । 'ताडना' चपेटादिना । 'ग' गर्हणीयसमक्षं कुत्सा । 'उच्चावचा' अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः । ' विरूपरूपाः’
च