SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [ पृष्ट० २६. ] पञ्चमेऽपि तथैव, तत्र प्रथमे (१५ ) 'सुरग्गिदीवायणमूलाए 'त्ति सुरा च-मद्यं कुमाराणामुन्मत्तताकारणं अग्निश्च-अग्निकुमारदेवसंधुक्षितो द्वीपायनश्च-सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेवत्वः एते मूलं कारणं यस्य विनाशस्य स तथा, अथवा सुरश्चासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । (२१ ) 'परिभाइत्ता' इह 'दाणं च दाइयाणं'ति संस्मरणीयं । [ पृष्ट० २८. ] (१-२) 'कोसंबवणकाणणे' पाठान्तरेण 'कोसंबकाणणे' 'पुढवित्ति 'पुढवीसिलापट्टए'त्ति दृश्यं, पीयवत्थति 'पीयवत्थपच्छादियसरीरे'त्ति दृश्य। (१९) 'तिवई' न्ति त्रयाणां पदानां समाहारस्त्रिपदी-मल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति-करोति । [ पृष्ट० २१. ] (९-१०) राजा-प्रसिद्धो राजा युवराजः-राज्याहः ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः मोडम्बिकः-मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः-द्वित्रादिकुटुम्बनेता ईभ्यादयः प्रतीताः।(१२-१३) 'पच्छाउरस्सवित्ति पच्छत्ति प्रव्रजतायद्विमुक्तं कुटुम्बकं तन्निर्वाहार्थमातुरः-साबाधमानसो यस्तस्यापि यथाप्रवृत्तां-यथाप्ररूपितां वृत्ति-आजीवनम् 'अनुजानाति पूर्ववद्ददाति न पुनवृत्यर्जकस्य प्रव्रजित्वेन पाश्चात्यनिबर्बाह्यतत्कुटुम्बस्य तामपहरतीति ।
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy