________________
साहित्यसारम् ।
[ उत्तरोध
हीना धर्मोपमानाभ्यां समासे वाचकेन च । मृगबालदृशं दृष्ट्वा विवेकः कस्य सुस्थिरः ॥ ५३॥ दीक्षितैरुदिता वाचकोपमानविलोपनात् ।
ग्राह्या मृगविशालाक्षीत्यादौ लुप्तोपमाप्यसौ ॥ ५४॥ . दयति-हीनेति । समासे धर्मोपमानाभ्यां वाचकेन च हीनेत्यन्वयः । तामुदाहरति-मृगेति । मृगबालस्य हरिणकिशोरस्य दृशाविव दृशौ यस्याः सा तथा तामित्यर्थः । अत्रोपमानीभूतदृशोर्वाचकस्य च सामासिकशास्त्रकृतो लोपः साधा. रणधर्मस्य चपलनीलत्वादेः कवीच्छाकृत एवेत्युक्तसमासे त्रयाभावात्तथात्वम् ॥ ५३ ॥ नन्वेवं प्राचां काव्यप्रकाशकारादीनां नव्यानां रसगङ्गाधरकृतां च मतमनुसृत्य त्वया सप्तव लुप्तोपमाभेदान्सामान्यतः प्रतिज्ञाय तत्र प्राथ. मिकं पञ्चभेदानामवान्तरभेदेष्वन्तिमतन्मुख्यभेदद्वये च कुवलयानन्दोकलप्तोपमाष्टकमध्ये वाचकोपमानलुप्तातिरिक्तलुप्तोपमानां सप्तानामन्तर्भावं समभिप्रेत्य सैव परमत्वपृथक्त्वेन संग्राह्येत्युक्तं, तत्र कथं तदन्तर्भावप्रकार इतिचेदुच्यते । वाचकलुप्तायास्तडिगौरीत्युदाहृतायाः समासगायां वाचकलुप्तायां 'संस्मरामि प्रियापाङ्गलोलेन्दीवरसुन्दरम्' इत्युदाहृतायाम् । धर्मलप्तायां इन्दुतुल्यास्येत्युदाहृताया आर्थिकधर्मलुप्तायां, समासगायां भारति वदपाङ्गगोऽयं क्षीरोदोर्मिसमोऽद्यमे' इत्युदाहृतायां, धर्मवाचकलुप्तायाः 'कर्पुरन्ती दृशोर्मम' इत्युदाहृतायाः कर्मणिक्यजगतायाम् 'शान्तः संसारममृतीयति' इत्युदाहृतायां, वाचकोपमेयलुप्तायाः ‘कान्या स्मरवधूयन्ती' इत्युदाहृतायां वाचकोपमेयलुप्तायां, क्यजगतायां ‘कान्तयाऽद्योर्वशीयन्त्या कृतकृत्यः प्रियोऽभवत्' इत्युदाहृतायां, उपमालुप्तायास्तु वाक्यगतोपमानलुप्तायां 'गुरो तं न वयं विद्मस्तुलां ते योऽधिरोहति' इत्युदाहृतायां, धर्मोपमानलुप्तायाः, समासगोपमानलुप्तायां 'यत्तुला त्वन्मुखे बाले ब्रह्मा. ण्डेऽत्र शशी व सः' इत्युदाहृतायां, धर्मोपमानवाचकलुप्तायाः धर्मोपमानवाचकलुप्तसमासगायां 'मृगबालदृशं दृष्ट्वा विवेकः कस्य सुस्थिरः' इत्युदाहृतायां चान्त. र्भावः स्फुट एव । अत्रोपमानलोपसहितानां चतसृणामपि लुप्तोपमानां कुवल. यानन्दे 'यत्तया मेलनं तत्र लाभो मे यश्च तद्रतेः । तदेतत्काकतालीयमविततिसंभवम्' इति व्याकरणक्लिष्टोदाहरणानि नैव प्रदर्शितानि । एवं चोक्तप्रतिज्ञाया युक्तत्वे अप्पय्यदीक्षितोक्काष्ट विधलुप्तोपमाखसंभावितप्रकृतोकैकोनविंशतिसं. ख्याकलुप्तोपमान्तर्भावायाः वाचकोपमानलुप्ताया अनावश्यसंग्राह्यत्वं कथयस्तामपि प्रसिद्धिप्रदर्शनपूर्वकमुदाहरति-दीक्षितैरिति । दीक्षितैरप्पय्यदीक्षितैः । वाचकेति । वाचकोपमानयोर्यद्विलोपनं समासवशादप्रतिभानं तस्मादित्यर्थः । या वाचकोपमानलुप्ता लुप्तोपमा उका कुवलयानन्दे प्रतिपादितास्तीत्यार्थिकम् । इहेत्यपि असावपि मृगेति । मृगस्य अक्षिणी इव विशाले अक्षिणी नेत्रे यस्याः सा तथेत्यर्थः । इत्यादावुदाहरणे प्रसिद्धेत्यर्थः । ग्राह्या संग्राह्येत्यन्वयः । एवमुदा