________________
कैस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
क्यङ्गता तु स्थितप्रज्ञः सदा विन्ध्याचलायते। कर्मकर्तृणमुल्गे ते विबोध्ये अप्यनुक्रमात् ॥४८॥ ये ये पीयूषपायं त्वां तत्त्वविये पिबन्त्यलम् । मुक्तिप्रियतमावासं वसन्त्येव जनेपि ते ॥४९॥ धर्मोपमानलुप्ता तु वाक्यगा च समासगा। सहुरो न समस्तेऽत्र विद्ये न त्वत्समापि च ॥५०॥ अथ वाचकधर्माभ्यां लुप्ते विबूगसमासगे। दृगुत्पलति ते बाले वदनेन्दाविहाद्भुतम् ॥५१॥ वाचकेनोपमेयेनाप्ययुक्ता क्यजूगता यथा । कान्तयाऽद्योर्वशीयन्त्या कृतकृत्यः प्रियोऽभवत् ॥५२॥
क्यङ्गतां तां प्रतिबोधयति-क्यङित्यर्धेनैव । स्थितेति । समाहितस्थितप्रज्ञोऽसंप्रज्ञातसमाध्यधिरूढ इति यावत् । एवं कर्मणि कर्तरि च णमुत्प्रत्ययगे अपि ते विशदयति-कर्मत्यादिसार्धेन । ते लुप्तोपमे इत्यर्थः ॥ ४८ ॥ ते समुदाहरति-ये य इत्यादिपूर्वोत्तरार्धाभ्याम् । हे तत्त्वविद्ये, अद्वैतब्रह्मविद्ये इत्यर्थः । ये ये ज्ञानिनः त्वां प्रति । अत्र स्त्रीलिङ्गत्वात्तद्वत्सुखदत्वाच खकीयरमणीत्वं ध्वन्यते । पीयूषपायम् । अत्र पीयूषमिवेति कर्मण्युपमान उपपदे णमु. त्प्रत्ययः । अलं यथेच्छं पिबन्त्याखादयन्तीत्यर्थः । मुक्तीति । मुक्तिप्रियतमा इवेति कर्तर्युपमान उपपदेऽत्र णमुल्प्रत्ययः । जने लोकेपीत्यर्थः । एवंच तेषां लोकबाधा नैव भवतीति भावः । त एव वसन्तीति संबन्धः । यथावा रसग. ङ्गाधरे-'निरपायं सुधापायं पयस्तव पिबन्ति ये । जह्णजे निर्जरावासं वसन्ति भुवि ते नराः' इति ॥ ४९ ॥ एवमुद्देशक्रमप्राप्तां धर्मोपमानलुप्तां वाक्यसमासगत्वेन द्विविधामप्याह-धर्मोपमानेति । तामुदाहरति-सदित्यादिना । अत्र पूर्वपादे वाक्यगा अन्त्ये समासगति विभागः । स्फुटमेवान्यत् ॥५०॥ एवमुद्दिष्टक्रमप्राप्तामेव वाचकधर्मलुप्तां क्विबूगतत्वसमासगतत्वाभ्यां द्विविधामप्यभिधत्ते-अथेति । तत्र पूर्वोत्तरचरणाभ्यामुभे अप्युदाहरति-दृगित्या. युत्तरार्धेन । यथावा रसगङ्गाधर एव–'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति' इति । 'शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे । केसरा इव काशन्ते कान्तदन्तालिकान्तयः' इति च । अत्र वदनाम्बुज इत्येवोदाहरणं बोध्यम् ॥ ५१ ॥ एवं वाचकोरमेयलुप्तां क्यजगतामपि कथयति-वाचकेनेति । तामुदाहरति-कान्तयेति । अद्य तारुण्योदयसमय इत्यर्थः । उर्वशीमिवात्मानमाचरतीत्याचारार्थके क्यचि उर्वशीयन्ती तयेत्यर्थः । अत्रोपमेयस्यात्मनो वाचकस्येवशब्दस्य च सामासिकशास्वतो लोपः ॥ ५२ ॥ तद्वदेव क्रमप्राप्तां धर्मोपमानवाचकलुप्तां समासगां व्युत्पा