SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] ८ सरसामोदव्याख्यासहितम् । श्रौती समासगा धर्मलुप्ता तल्लोप ऐच्छिके । हेरम्बारुणबिम्बाभेव श्रीः क्व त्वां विनेक्ष्यते ॥ ४३ ॥ आर्थी समासगा धर्मलुप्ता चेदार्थिकोऽत्र सः । भारति त्वदपाङ्गोऽयं क्षीरोदोर्भिसमोद्यमे ॥ ४४ ॥ ३७७ एवं वाक्यगतां धर्मलुप्तां श्रौतीमार्थी च समुदाहृत्याथ समासगतां तां समुदाहरन्प्रथमं समासगां धर्मलुप्तां श्रौती लक्षयति — श्रौतीति । तत्र श्रौतीपदेनोपमावाच - कस्येवशब्दस्य श्रवणसत्वमेव विवक्षितम् । तस्याः समासगत्वं तु 'इवेन समासो विभ क्त्यलोपश्च' इति शास्त्रसिद्धमेव । ऐच्छिके कवीच्छा मात्रसिद्धे । तल्लोपे धर्मलोपे सतीत्यर्थः । एवंच कवीच्छयैव साधारणधर्मानुपादाने सति सामासिकेवशब्दश्रवणजन्योपस्थितिविषयत्वं श्रौतसमासगतधर्मलुप्तोपमात्वमिति तल्लक्षणं फलति । तामुदाहरति — हेरम्बेति । अरुणेति । 'अरुणः सविता रविः' इत्यमरादरुणपदध्वनितौदयिक सूर्यबिम्बप्रभासदृशीत्यर्थः । श्रीः शोभा । हे हेरम्ब, त्वां विना क्व ईक्ष्यत इत्यन्वयः । अत्र निरतिशयारक्तवर्णत्वे सति सद्यः सकलतमः शामकत्वरूपसाधारणधर्मस्य कविना स्वेच्छयैवानुपादानात्सामा सिकेवशब्दश्रवणाच लक्षणसंगतिः । यथावा मदीये नीतिशतपत्रे - 'हितेच्छुना तु कर्तव्यः सतामेव समागमः । सरसानां सुमनसां षट्रंपदेनेव सर्वदा' इति । नचात्र हितेच्छुत्वमेव साधारणधर्मः सुखसामान्यस्य हितपदव्यवहार्यस्य षसंपदा उपमानीभूतें भ्रमरे तथात्राध्याहार्य उपमेयीभूते पुंसि चेच्छायाः सत्वादिति वाच्यम् । पुंसि हित पदार्थधर्मादिचतुर्विधपुरुषार्थविषयकेच्छाया एव विवक्षितत्वेन षट्पदे तु मकरन्दाद्यास्वादनावग्रहणमात्रजन्यक्षणिक सुखस्यैव हितपदेन विवक्षितस्येच्छायाः सत्वेन वैषम्यात् । अन्यथा पुरुषे भ्रमरवत्क्षणभङ्गुर विषय सुखास्वादनैकेच त्वविवक्षायां विधीयमानसार्वदिक निरतिशयसप्रेमसदे कसमागमस्य वैयर्थ्यात्क्षुदसुखस्यासत्समागमादिनापि सुलभत्वाच्चेति दिक् ॥४३॥ अथावसर प्राप्तां समासगतामार्थीमपि धर्मलुप्तां लक्षयति-आर्थीति । सः साधारणधर्मसंबन्धलक्षणोपमानोपमेयभावः साधारणधर्मो वा । तथाच सदृशसमादिशब्दसमासे सति आर्थिकसाधारणधर्मसंबन्धलक्षणोपमानोपमेयत्वं आर्थिकसाधारणधर्मत्वं वा आर्थसमासगधर्मलुप्तात्वं तल्लक्षणं पर्यवसितम् । तामुदाहति - भारतीति । अयि भारति शारदे, अयं ध्यानकालिकत्वेन साक्षिप्रत्यक्षः । त्वदपाङ्गस्तव नयनकोणः । अद्य त्वत्प्रसादकाले - क्षीरेति । क्षीरोदाद्देवादिमथ्यमानक्षीरसमुद्रात्सकाशादूर्मिंराविभूर्तविल· क्षणधावल्यशालिचश्ञ्चलवीचिर्यस्यामृतस्य तेन समः शुक्लत्वशीतलत्वानुपमतर्पकत्वादिना सदृश इत्यर्थः । अस्तीत्यार्थिकम् । अत्र सामासिकोपमानाव्यवहितसम शब्दान्वयसत्वेन साधारणधर्मसंबन्धलक्षणोपमानोपमेयभावस्य साधारणधर्मस्य वा आर्थि- कस्यैव सत्वालक्षणसमन्वयः । तदुक्तं लघुशब्दमञ्जूषायाम् । काव्यप्रकाशखरसोऽप्येवमेव । तत्र ह्येवमुक्तम् । यथेववादिशब्दा यत्परास्तस्यैवोपमानता प्रतीतिरिति । कच्छु
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy