SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७६ साहित्य सारम् । अथ लुप्तोपमानेन लुप्ता वाक्यगता यथा । गुरो तं न वयं विद्मस्तुलां ते योऽधिरोहति ॥ ३९ ॥ समासेनोपमानस्य लोपे सैव समासगा । [ उत्तराधे तुला त्वन्मुखे बाले ब्रह्माण्डेऽत्र शशी क्व सः ॥ ४० ॥ अथ धर्मेण लुप्ता या सा श्रौती वाक्यगा यथा । सतां चेतो वचः शीलं कर्म चाप्यमृतं यथा ॥ ४१ ॥ अर्थाद्धर्मस्य लोपश्चेदार्थी वाक्यगता तथा । अपवादेऽपि विश्चित्तं समं वज्रेण दृश्यते ॥ ४२ ॥ भेदानुद्दिष्टक्रमानुसारेण संक्षिप्येदानीं तदनुसारेणैवैकोनविंशति संख्या कांलुप्तोपमाभेदानपि लक्षणादिना दिदर्शयिषुः प्रथमं वाक्यगतामुपमानलुप्तां लक्षयतिअथेति । अथ पूर्णोपमाषटूनिरूपणानन्तरम् । लुप्ता कथ्यत इति शेषः । अत्र लक्षणं तु वाक्यगतत्वे सत्युपमानशून्यत्वमिति निगदव्याख्यातमेव । तामुदाहरति - गुरो तमिति । एवंच यं परमात्मानमवाङ्मनसगोचरं साक्षादैन्द्रि यकप्रत्यक्षेण वयं न विद्मः । स एवाद्वैतः परमेश्वरस्ते तुलामधिरोहतीति ध्वननान्नैवात्रोपमानाभावप्रयुक्तसादृश्याभावादलंकारान्तरशङ्कावसर इत्याशयः ॥ ३९ ॥ एवं समासगामुपमानलुप्तां संलक्ष्योदाहरति- समासेनेति । सैव उपमालुप्तैव । अत्र ब्रह्माण्ड इत्युक्त्या ब्रह्माण्डान्तरे तादृशो निष्कलङ्कक्षयादिः शशी संभावित एवेति भावः । यथावा रसगङ्गाधरे - 'यत्तुलनामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः' । अत्र वर्णसौरभेति वाच्यम् । तेन नाश्लीलत्वावकाशः ॥ ४० ॥ अथ धर्मलुप्तां श्रोतीं वाक्यगतां लक्षयति — अथेति । धर्मलुप्ताभेदकथनारम्भार्थोऽथशब्दः । उपमानलुप्ताभेदद्वयकथनानन्तर्यार्थो वा । तामुदाहरति — सतामिति । अत्र क्रमाच्चेतः प्रभृतिषु चतुर्ध्वप्यमृतसाधर्म्याण्यति नैर्मल्य माधुर्यशीतलत्वजीवातुत्वानि कवीच्छयैवानुक्तानीति धर्मलोपः । एवं श्रौतत्वं श्रवणमात्रेण शक्तिवृत्त्यैवार्थज्ञापकत्वम् । वाक्यगतत्वं चासमस्तपदबोध्यत्वम् । यथावा काव्यप्रकाशे — 'धन्यस्यानन्यमान्यस्य सौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा इति ॥ ४१ ॥ एवं धर्मलुप्तामार्थी वाक्यगतामपि संलक्ष्योदाहरति — अर्था· दिति । तथा धर्मलुप्तेत्यर्थः । विश्चित्तं विदां तत्त्वज्ञानां चित्तमिति यावत् । अपवादे जनानामारोपित दुर्वाक्यप्रवादे सत्यपीत्यर्थः । समं वज्रमणिवहुर्भेद्यं भवति । यथावा रसगङ्गाधरे - 'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते । उत्तमानां विकारेपि नापैति रमणीयता' इति । अत्र तुल्यं तामरसेन ते इति वाच्यम् । तथाच कोपेतरकाले अपिशब्दसूचित कोकनदोपमानध्वनितमुखरक्तत्वदोषावमोषः । अन्यथा श्रीमदप्पय्य दीक्षितादिग्रन्थतात्पर्यानवबोधनादिना तान्दूषयतामेतेषामपि प्रदीपाधोन्धकारन्यायापात इति दिक् ॥ ४२ ॥ -
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy