SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४७ गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । स नालिकेरीपाको यः स्वान्तYढरसो दृढः । धिग्भ्रमद्भङ्गतुङ्गाक्षी गुर्वपाङ्गेऽङ्गरङ्गिणि ॥ १८५ ॥ शोभाप्रमितदोषोऽपि गुणोत्कर्षेण बाध्यते । निन्दन्ति रमणीं भ्रान्ताश्चूडाला किं न मुक्तये ॥ १८६ ॥ परुषेति । प्रागुक्तपरुषाख्यवृत्त्यनुकूलार्थद्वारा तामसरसनिष्ठमोजोगुणं नालिकेरीपाकादिकं व्यनक्तीति योजना ॥ १८४ ॥ तत्रोद्देशक्रमानुसारेणैव प्रथमं नालिकेरीपाकं लक्षयति—स इति । तदुक्तं प्रतापरुद्रीये-'स नालिकेरीपाकः स्यादन्तगूंढरसोदयः' इति । तमुदाहरति-धिगिति । गुर्विति । देशिककृपाकटाक्ष इत्यर्थः । अङ्गेति । मच्छारीरसंचारचंचुरे सतीति यावत् । भ्रमदिति । चलच्चञ्चरीकाधिकचपलविलोचनामपीत्यर्थः । धिगस्त्वि यन्वयः। अत्र त्यागवीरस्यातिगूढत्वाद्रचनायाश्च दृढत्वाल्लक्षणसंगतिः। यथावा-'अभ्युद्धता वसुमती दलितं रिपूरः क्षिप्तक्रमं कवलिता बलिराज्यलक्ष्मीः। अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः' इति ॥ १८५ ॥ अथ शोभां लक्षयति-शोभेति। यत्र प्रमितदोषोऽपि निर्णीतदोषोपीत्यर्थः । गुणेति । गुणाधिक्यप्रमयेतियावत् । बाध्यते बाधविषयीक्रियते तागर्थरचनाशोभेति संबन्धः । तदुक्तं चन्द्रालोके'शोभा ख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते । मुधा निन्दन्ति संसारं कंसारियंत्र पूज्यते' इति । नचेदं दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् 'विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः' इति कुवलयानन्दकारिकोक्तानुज्ञालंकारेन्तभूतमिति सांप्रतम् । लक्षणभेदात् । गुणोत्कर्षेण बाधितत्वप्रमितदोषत्वं शोभात्वं समानाधिकरणगुणवशादभ्यर्थ्यमानदोषत्वं चानुज्ञात्वमिति तद्भेदात् । पूर्वत्र हि गुणोत्कर्षेण दोषस्य बाधमात्रं न त्वभ्यर्थनम् । अत्र त्वभ्यर्थनमपीति स्पष्टमेव तयोर्वैलक्षण्यमिति संक्षेपः । तामुदाहरति-निन्दन्तीति । रमणीं यावत्स्त्रीगुणविशिष्टखवधूटीमित्यर्थः । तत्र हेतुः चूडालेति चरमचरणेन । अत्र गार्हस्थ्यवीरो ध्वनितः । एवं हि बृहद्योगवासिष्ठे षष्ठे निर्वाणप्रकरणे पूर्वार्धे सप्रपञ्चं समुपाख्यायते-शिखिध्वजाख्यः कश्चिन्मनुष्यानन्दसंपन्नः सार्वभौमः पूर्ववयस्येव दिग्विजयादिकं विधायानवशिष्टव्यावहारिककृयशेषः सन्तस्वयं चूडालाख्यया यावद्रमणीगुणवत्या खसत्या सहैव पुराणश्रवणादिकमकरोत् । तत्र तस्या एव जन्मान्तरीयसुकृतपरिपाकवशादेव सयोगैश्वर्यं तत्त्वज्ञानं प्रादुरभूत् । स तु राजा स्वस्य तदनवाप्याऽनुतप्यमानस्तां विहाय स्वयमेकाक्येवारण्यमगात् । ततश्च योगमाहात्म्यावगततत्प्रतिबन्धया तया द्वादशवर्षोंत्तरं तत्र कुम्भनामकमुनिकुमाररूपं धृत्वा तं प्रति सयोगब्रह्मविद्यामुपदिश्य समवाप्तजीवन्मुक्तिफलं तमाकलय्य नैजं स्त्रीरूपं प्रकटीकृत्य तं निजराजधानी समानीय तेन सह स्वधर्मेणैवैहिकपारमार्थिकानन्द
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy