________________
साहित्यसारम् ।
[ पूर्वार्ध
-----
त्यर्थमहं स च मम प्रियः' इति । श्रीमद्भागवतेऽपि — 'निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यमिरेणुभिः' इति । वाणी वाग्रूपा रमणी । यावत्स्त्रीगुणविशिष्टत्वे सति निखिलदोषहीना कन्येत्यर्थः । अनेन दमयन्त्यादिचत्स्वयंवरणनिपुणत्वं द्योतितम् । सा तमेव पूर्वोक्तं श्रीवल्लभचिन्तितपादपल्लवं स्थितप्रज्ञमेव । एतेन ब्रह्मादीनामपि व्यावृत्तिः सूचिता । तेन तेष्वेतदपेक्षयाऽनभिवर्णनीयत्वमपि व्यज्यते । परिणेतुं विधिवत्तत्पाणिग्रहणं कर्तुमित्यर्थः । सम्यक् अखण्डितप्रेमपूर्वकं आतुरा विह्वलास्तीत्यर्थः । अयमाशयः - मद्वाणीलक्षणरमण्याः स्वयं वरणनैपुण्येऽपि ब्राह्मणकन्यकात्वेन तदनौचित्यात्, मम तु ब्राह्मणत्वेन 'न यद्वचचित्रपदम्' इत्यादिभगवद्वर्णनविधायकवचनैस्तत्रैव तां नियोक्तुं प्रवृत्तत्वात् तस्याः स्वातन्त्र्याभावान्निरुक्तरीत्या भगवदपेक्षयापि तन्माहात्म्यातिशयदर्शनेन निरुक्तजीवन्मुक्तपुंस्येवानुरागदासद्भावाच्च रोगांक्रान्तेव परमव्याकुलीभूतेति । तेनात्रोदात्तो नायकः, उत्कण्ठिता नायिकापि रूपकतः । तस्मात्प्रायेणात्र ब्रह्मनिष्टमेव वर्णयिष्यामीति भावः । अत्रैव लक्षणसमन्वयः । तथाहि अत्र सकलशब्दार्थदोषलेशेनापि रहितत्वं तु वक्ष्यमाणलक्षणादीनां तेषां काव्यप्रकाशादिसंमतानां श्रुतिकटुत्वादिरूपाणां सर्वेषामपि देशतोऽप्यभावात्स्फुटतरमेव । यद्यप्यत्र – ‘श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम्' इत्युक्तेर्वाणीरमणीत्यत्र तद्वैपरीत्याच्छन्दोभङ्गदोषः स्फुट एव, तथापि अस्यानुष्टविशेषेऽन्तर्भावाद्यद्वा 'धिक्तां च तं च मदनं च इमां च मां च' इत्यत्रेव प्रकृतेऽपि वाण्याः समातुरत्वाभिधानात्तद्व्याकुलीभाववशादुक्तदोषोऽपि रभसादभिसरन्त्याः सुन्दर्याः प्रच्युतमञ्जीरादिवद्गुणलेनैव रसपोषकत्वात्परिणमत इति ध्येयम् । गुणवत्त्वं तु यथा 'तत्र तावद्धर्मा रसा' इत्यादिश्लोकेन ये प्रागुक्ताः काव्ये षड्गुणास्ते सर्वेऽप्यत्र वर्तन्ते । तद्यथा-धर्मा हि माधुर्यादयस्त्रय एव । तत्र 'माधुयजः प्रसादाख्यास्त्रयस्तेन पुनर्दश । आह्लादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्' इति काव्यप्रकाशीयसूत्रवचनाच्छान्तरसप्रधाने प्रकृतपद्ये तद्व्यञ्जकशब्दादिसत्त्वात् श्रवणमात्रेण सहृदयानामाह्लादकत्वलक्षणरसास्वादेन चित्तस्य विलयावस्थारूपद्रुतिहेतुभूतं तदस्त्येव । तथा रसाः शृङ्गारादयः प्रसिद्धा एवात्र वक्ष्यमाणाश्च । तन्मध्ये प्रकृते शान्त एव प्रधानो रसः । शृङ्गारस्तु वक्ष्यमाणरसप्रकरणरीत्या तद्विरोध्यपि प्रकृतवर्ण्यजीवन्मुक्ताख्यनायक भिन्नलक्ष्म्याख्यनाथिकानिष्टत्वेन स्ववाण्यां ग्रथितरमण्यात्मकरूपकालंकारोपयोगित्वात् ग्रथित इति बोध्यम् । नचैवं रसभङ्गापत्तिः शान्तशृङ्गारयोश्च विरोध इति रसगङ्गाधरोक्तेः सुन्दोपसुन्दन्यायेनोभयोरपि ध्वंससंभवादिति वाच्यम् । उभयोः सामानाधिकरण्याभावात् प्रत्युत तेन तत्पुष्टेरेव संभवाच्च । तथाहि अहो त्रिभुवनसुन्दर्या भगवत्या लक्ष्म्यापि यः परमप्रमोदेन स्वयंवरे शिवादीनपि विहाय परिणीतः सोऽपि सर्वज्ञः सर्वेश्वरः सर्वकल्याणगुणनिलयः पूर्णानन्दघनः परमात्मा
1
१४