SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ . दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । विभावाद्यैरपाज्ञानचिद्वेद्यः स्थाय्यसौ रसः। यद्वा तत्संयुतिव्यक्तस्थाय्युपाधिश्चिदेव सः॥१४॥ व्यङ्गय इति व्यङ्गयमुक्तं, तथापि मया तु खेदस्मितानुमितदृढतरानुरागायाः प्रकृतनायिकायाः प्रणयप्रकोपनिमित्तकं निषेधमेव संभोगनिवारणमेव अधरं विहाय चिराय पपौ प्राशितवानिति योजनां विधाय यदा संभोगनिषेधः प्राशितः कुम्भ. संभवेनाम्भोधिवत्स्वोऽन्तरेव ध्वंसितस्तदा तत्प्रतियोग्यालिङ्गनाधरपानादिः संभोगः साधित इति विरोधिलक्षणया लक्ष्यते । तेन च तस्यां गूढप्रेमातिशयः सौन्दर्यादिगुणातिशयश्च व्यज्यत इत्युच्यत इति क्षन्तव्यं सहृदयैः ॥ १३ ॥ एवं सामान्यतः सप्तध्वनिभेदानुदाहरतात्रालक्ष्यक्रमव्यङ्गयस्य विवक्षितान्यपरवाच्यस्य शक्तिमूलस्य प्रथमस्य ध्वनिभेदस्य रसध्वनित्वमुक्तं स किंलक्षणो रस इत्याशङ्कायां तल्लक्षणं प्राचीननवीनमतभेदेन संक्षिपति-विभावाचैरिति । विभावादीनां स्वरूपं तूक्तं काव्यप्रकाशमूले- 'कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेनाट्यकाव्ययोः । विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः' इति । अत्राप्यग्रे वक्ष्यामः । एवंच रत्यादेः स्थायिभावस्य कारणत्वं विभावत्वं कार्यत्वमनुभावत्वं सहकारित्वं व्यभिचारिभावत्वमिति सामान्यतस्तल्लक्षणं फलितम् । ते विभावाः कान्ताद्यालम्बनविभावाश्चन्द्रिकाद्यद्दीपनविभावाश्च आद्या मुख्याः स्थाय्यभिव्यक्तिकारणत्वेन प्रधानीभूता येषां कटाक्षाद्यनुभावादीनां तैरित्यर्थः । अपाज्ञानेति । अपगतं दीपानयने तम इव अभिभूतमज्ञानं यस्याः एतादृशी या चित् साक्षिचैतन्यं तया वेद्यः दृश्य इत्यर्थः । अतएव असौ प्रत्यक्षः स्थायी रत्यादिः स्थायिभावः रसो भवतीत्यर्थः । अयं भावः-आलम्बनविभावाः सुन्दयोदयस्तथोद्दीपनविभावाश्चन्द्रिकादयोऽपि यदा बाह्यास्तदा प्रत्यक्षादिप्रमाणगम्याः । यदा तु स्वप्नमनोराज्ययोस्त आन्तरा एव तदा साक्षिचिन्मात्रभास्याः । उपलक्षणमेतदनुभावादेरपि । तत्रापि कटाक्षादीनामसालिकानामनुभावानां स्तम्भादीनां सालिकानां च तेषां बाह्यत्वात्तथा प्रमोदादीनां तेषां तथानिर्वेदादीनां व्यभिचारिभावानामप्यान्तरत्वाच । तत्रेन्द्रियार्थसंनिकर्षीत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षमिति व्याव. हारिकप्रत्यक्षलक्षकपारमर्षसूत्रान्निरुक्तालम्बनविभावादीनां बाह्यानां पदार्थानां च. क्षुरादीन्द्रियैः सह संनिकर्षो यदा भवति तदा तत्प्रत्यक्षमुत्पद्यत इति नियतम् । तत्रेन्द्रियार्थसंनिकर्षे सति चक्षुरान्तःकरणवृत्त्यवच्छिन्नं चैतन्यं बहिरागत्य विषयावच्छिन्नचैतन्याकारतां प्राप्नोति । ततो विषयावच्छिन्नचैतन्याज्ञानापसरणेन तत्स्फूर्तिर्भवतीति सिद्धान्तप्रक्रिया । एवमान्तराणामपि तेषां साक्षिचितैव प्रत्यक्षमिति निरुक्तविभावादित्रयसंयोगेन जनिता लौकिकमानसव्यापारवशादात्मनिटानन्दांशावरणस्य तात्कालिकापसरणेन साक्षिचिदेवान्तःकरणे वासनात्मकतयावस्थितं रत्यादिस्थायिभावं भासयतीति स एवोक्तरीत्या सुखहेतुत्वाद्रस
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy