SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन हत वजन चपलरनि जीवितव्यानि । जालन् जनः क नरम जातुचिस्मीयते तत्र ॥” ५ महाविपुलापूर्विका जघनचपला यथा “कस्य कृते कृत पुण्यस्य, दृष्टिरियमनिमिषात्त्वया ध्रियते । यासीत् पुरा कुरङ्गाक्षि नित्यमत्यन्तचपलैव ।।” ६ एवं मुखविपुलापूर्विका जघनंचपलोदाहार्या । पथ्यापूर्विका महाचपला यथा “चपलं न कस्य चेतो, नरस्य जायेत पश्यतस्तन्वीम् । नृत्यत्क्षणेऽत्र नव्याङ्गहारलीलामहाचपलाम् ।।" ७ महाविपुलापूर्विका महाचपला । यथा “युगपत्यप्रफुल्लकक्केल्लिमल्लिकां बकुलचम्पकान् दृष्ट्वा । जाता मधूत्सवे षट्पदावलीयं महाचपला।।'' ८ एवं मुखविपुलापूर्विका जघनविपुलापूर्विका च महाचपलोदाहार्या । एवं गाथाप्युदाहार्या । एवं पथ्याभेदेनैकेन विपुलाभेदैस्त्रिभिश्चपलाभेदैाद्दशभिः षोडशभेदाः । केचित्तु लघुत्रयादारभ्य द्विद्विलघुवृद्धया कमलादीन् पविशतिभेदानाहुः । यथा "कमला ललिया सीला जुण्हा रंभा य मागही लच्छी। विज्जा माला हंसी ससिलेहा जण्हवी सुद्धा ॥ ९॥ काली कमली मेहा सिद्धी रिद्धी अ कुम्भई धरणी। जक्खी वीणा बंभी गंधव्वी मंजरी गोरी ॥ १० ॥ कमला तिहि लहुएहिं, ललिआ पंचेहिं एवमाईओ। बिहिं चिहि वडढतेहिं, कमेण सेसाओ जाअन्ति ॥ ११ ॥” एतच्च गाथाप्रस्तारेप्वन्तर्भूतमिति न पृथग्लक्ष्यते । न च सर्वे प्रस्तारभेदाः शक्या उपदर्शयितुमित्यास्तामेतत् । ६ द्विः पूर्वाद्ध गीतिः ।। द्वौ वारौ पूर्वार्द्धलक्षणं यस्यामार्यायां सा गीतिः । सा च एकः पथ्यायाः त्रयो विपुलाया द्वादश चपलाया विकरुपा इति षोडशधा । अत्र पूर्वार्द्ध द्वादश सहस्राण्यष्टौ शतानि विकल्पाः । अपराद्धेऽपि तावन्तोऽन्योन्यनाताडनायां षोडश कोट्योऽष्टात्रिंशत् लक्षाश्चत्वारिंशत् सहस्राः 'विकल्पाः पथ्यागीतौ भवन्ति । विपुलागीतावपि त एव । सर्वचपलागीतौ पूर्वार्द्ध द्वात्रिंशद्विकल्पाः । अपरार्द्धऽपि तावन्तः । अन्योऽन्यताडनायां चतुविशत्यधिकानि दश शतानि । मुखचपलागीतौ पूर्वार्द्ध द्वात्रिंशद्विकल्पाः । अपरार्द्ध द्वादश सहस्राण्यष्टशताधिकानि । अन्योऽन्यताडनायां चतस्रो लक्षाः षण्ण
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy