SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन कल्पताडनायां अष्टौ कोटयः एकोनविंशतिर्लक्षाः विंशति सहस्राणि । यदाह । "जगणविहीना विषमे चत्वारः पञ्च युजि चतुर्मात्राः। द्वौ षष्ठाविति चगणास्तजाता प्रथमदलसंख्या ॥१॥ एवमपरार्द्धसंख्या षष्ठे स्यात् लघुनि चैकस्मिन् । आर्यासंख्योभयदलसंख्योघाताद्विनिर्दिष्टा" ॥ २ ॥ आर्या यथा “ उपदिश्यते तव हितं यदि वाञ्छसि कुशलमात्मनो नित्यम् । मा जातु दुर्जनजनेवार्याचरितं प्रपद्यस्व ॥" प्राकृते यथा “ कलसभवतवस्सिचुलुअपूरणमेत्ते वि मुणिअमज्झाण । जलहीण कहं सरिसा सया अगाहा महप्पाणो ॥" पैशाचिके यथा “पनमध पनयपकुप्पितगोलीचलनग्गलग्गपतिबिंब । तससु नखतप्पनेसु एकातसतनुधलं लुई ॥" एवमन्यभाषास्वप्युदाहार्य । आर्याया वक्तव्यान्तरमाह २ ० षष्ठे न्ले लाद्वितीयात्सप्तमे चाद्यात्पदमन्या? च पश्चमे ॥ पूर्वार्द्ध षष्ठे गणे न्ले सति द्वितीयालादारभ्य पदं भवति पष्ठन्लगणस्य प्रथमे ले यतिरित्यर्थः तथा सप्तमे भ्ले आद्यालादारभ्य पदं भवति षष्ठगणान्ते यतिरित्यर्थः । अन्याङ्के द्वितायेऽद्धे पञ्चमे न्ले सत्याद्याल्लात्पदम् चतुर्थः गणान्ते यतिरित्यर्थः । यथा “ चतुरम्बुराशिमुद्रितभू भारोद्धारचतुरभुजपरिघः एकाङ्गवीरतिलकः श्रीमानिह जयति सिद्धेशः ॥" आर्य विशेषानाह । ३ ०आद्यचियतिः पथ्या ॥ यस्यां द्वयोरप्यर्द्धयोराद्यचगणत्रये यतिर्भवति सा पथ्या यथा “नेपथ्यानि निरस्यति संप्रस्यति मत्तकोकिलानादात् । निन्दति चेन्दुमयूखांस्त्वद्विरहे नः सखी सुभगा ।।" ४ विपुलान्याद्यन्तसर्वभेदात्रिधा ।। अन्या द्वयोरर्द्धयोराद्यचियतिरहिता विपुला । सा चाद्यन्तसर्वभेदात्त्रेधा । पूर्वार्द्धं चगणत्रययतिरहिता आदिविपुला मुखविपुलेत्यर्थः । अपराद्धेऽन्तविपुला जंघनविपुलेत्यर्थः । द्वयोरप्यर्द्धयोः सर्वविपुला महाविपुलेत्यर्थः । यथा “मुखविपुला पर्यन्ते च लघीयांसो भवन्ति नीचानां। वर्षासु ग्रामपयःप्रवाहवेगा इव स्नेहाः" "नाभीनिम्ना कुचतटतुङ्गा जघनविपुलाथ मध्यकृशा । भृकुटिलाशयसरला च मानसं हरति सा बाला" ७ "शस्त्राभ्यासे रतिवल्लभस्य मन्ये
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy