________________
छंदोनुशासन
८१
O
दयोः पड्भयः परो लघुश्चेद्विपुला । नचेयं पथ्यया गतार्था । विपुलावर्गस्येदानीमारभ्यमाणत्वात्तां विना तस्यानुपपत्तेः । युक्पादयोः सप्तमेन लघुनाऽवश्यमेव भवितव्यम्, विषमपादयोस्तु नादिभिर्यगणस्यापवादं वक्ष्यति । पथ्यायां तु यगण एवावतिष्ठते । ४३ ० सैतवस्य चतुर्षु ।। सैतवस्याचार्यस्य मते चतुर्षु पादेषु षड्भय परो लो भवति यथा “विपुलेऽप्यम्बुधौ कृतं वर्त्म रामेण सैतवम् । चित्रमेतदिहाथवा किमसाध्यं महात्मनाम् ॥” ४४ • तुर्यान्नतभ्रम्स स्तद्विपुला । ओजे विपरीतादिरित्यत ओज इत्यनुवर्त्तते । ओजयोः पादयोस्तुर्यादक्षरात्परं यगणं बाधित्वा नतभरमसाश्चेद्भवन्ति तदा तद्विपुला | नविपुला तविपुला भविपुला रविपुला मविपुला सविपुला चेति । युजोः षड्भयो ल इति तु स्थितमेव । नविपुला यथा पश्यन्ति देवचरणद्वयं ये तव भक्तितः । तेषां भवन्ति विपुलाः सद्यः कल्याणसम्पदः || ” ओजे इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वा । तथा च महाकवीनां प्रयोगः ८८ अनाकृष्टस्य विषयैर्विद्यानां पारश्वनः । तस्य धर्मरतेरासी वृद्धत्वं जरसा विना ॥ " तथा " तव मंत्रकृतो मन्त्रैरात्संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ।। " तविपुला जातिपक्षे यथा " पादेन हता येन सा जातीलुब्धेन मल्लिका । अलेस्तस्य दैवादहो बदर्यपि सुदुर्लभा ॥" व्यक्तिपक्षे
८८
वन्दे कवि श्रीभारविं लोकसन्तमसच्छिदम् । दिवा दीपा इवाभान्ति यस्याग्रे कवयोऽपरे ।" " तथा लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ " जातिपक्षे भविपुला यथा “इयं सखे चन्द्रमुखी स्मितज्योत्स्नावभासिनी । इन्दीवराक्षी हृदयं दन्दहीति तथापि मे || " व्यक्तिपक्षे यथा व्यक्तिपक्षे यथा " यस्य प्रभावादभुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः || ”
तथा
८८