________________
छंदोनुशासन
यथा " घनपरिमल मिलदलि. कुल. मुखरित निखिल.रुवुवलयदनः । जनयति मनसि निरवधि मुदमविरतमिह मम मधुरतिरुचिरे " ३७ लगाव | द्वयोरर्द्ध योर्यथासंख्यं न्ऌगौ ललगाश्च यत्र भवन्ति साप्यतिरुचिरा यथा " रतिकरमलयमरुति शुचिशशिभृति हतहिममहसि मधुसमये । परिहरसि पथिक हतक कथमतिरुचिर युवतिमतिहि चपलतया" द्वे अप्येते चूलिके इत्यहीन्द्रः । अर्द्धसमप्रकरणम् ।
८०
((
""
अथ विषमवृत्तान्युच्यन्ते । ३८ ० अनुष्टभि नाद्यात्स्त्रौ तुर्याद्यो वक्रम् । अनुष्टुभ्यष्टाक्षरायां जातौ पादस्याद्यात्प्रथमादक्षरात्परौ त्रौ सगणनगण भवतोऽन्ये तु षङ्गणा यथेष्टं भवन्ति चतुर्थादक्षरात्परत्श्च यगणो भवति तद्वृत्तं वक्रनाम यथा तस्यास्त्रस्तरङ्गाक्ष्या वक्रेण त्वं पराभूतः । हिमांशो क्षीयसे युक्तं लज्जसे तु न किं वृद्धया ॥ एवमन्यदप्युदाहार्यम् । अत्र प्रथमपादस्य प्रथमस्थाने ग्लाविति द्वौ विकल्पौ । द्वितीये स्नवर्जनात् शेषगणैः षट् । तृतीये य एकएव । चतुर्थे ग्लाविति द्वौ । अन्योन्याभ्यासे चतुर्विंशतिः । प्रतिपादं चतुर्विंशतेर्भावादन्योभ्याभ्यासे जातास्तिस्त्रो लक्षा एकत्रिंशत्सहस्राः सप्त शतानि षट्सप्तत्यधिकानि । एवमियमेव संख्या प्रत्येकं विपुला भेदेष्वपि ज्ञेया । ३९० तद्युजोर्जः पथ्या ॥ तद्रकं युजोः पादयोस्तुर्यादक्षरात्परो जगणश्चेद्भवति तदा पथ्या । यथा “ आलानितगजस्कन्धघृष्टाः पथ्यायतद्रुमाः । अद्यापि कथयन्त्येते राजेन्द्र तव दिग्जयम्” ४० ० ओजे विपरीतादिः ।। ओज्योः पादयोस्तुर्यादक्षरात्परो जगणश्चेद्विपरीतादिः पथ्या युक्यादयोर्य एवावतिष्ठते यथा “विपरीतानि रे शठ करिष्यसि कियन्त्यस्मात् । दुकूलं प्रच्छदीकृतं तरया धत्से ममा यत् ” ४१ ० नश्चपला || ओजयोः पादयोस्तुर्यादक्षरात्परो नगणश्चेच्च पला । यथा “ वीक्षितोऽप्येष तिलकश्चपलाक्षि त्वया सद्यः । दधाति नव्यमुकुलै रोमाञ्चकञ्चुकं मन्ये ।।” ४२ ० युजोः षड्भ्यो लो विपुला ।। युक्पा