________________
भगवद्भिर्विरचितं पाणिनीयप्रभृत्यनेकलघुमहाव्याकरणातिशायि सर्वाङ्गसम्पूर्ण श्री सिद्धहेमचन्द्रशब्दानुशासनाभिधं व्याकरणम्, अध्ययनेनास्याध्येतारः सन्धि-शब्दरूपसिद्धि-कारकसमासतद्धितकृदाख्यातादिज्ञानेन शुद्धशब्दव्युत्पादनेऽवगमे च समर्था भवन्ति, व्याकरणज्ञानेन व्युत्पन्नापि न हि शक्नुवन्ति केचिदपि लिङ्गज्ञानमृते यथालल्लिङ्गनिर्देशपूर्वकं पदानि प्रयोक्तुमतस्तैय॑रचि शब्दानुशासनादनुलिङ्गानुशासनम् । सत्यपि एतद् द्वयार्थबोधे वक्तुर्यथावदभिप्रेतार्थबोधाय काव्यप्राणभूतरसास्वादाय च विभावानुभावसञ्चारिभावकाव्यगुणदोषनानाविधालङ्कार-रसादीनां ज्ञानं परमावश्यकम् , तदर्थ विनिर्ममे काव्यानुशासनं श्रीमद्भिः । एवं शब्दानुशासनं लिङ्गानुशासनं काव्यानुशासनं च निर्मायापि निजचेतसि प्रतिभासमानां न्यूनतां दूरीकरणाय रचितं छन्दोऽनुशासनम् । एतद् विना न शक्नोति कोऽपि यथावत्पद्योच्चारं कर्तुम्, एतदध्ययनेनैव छन्दोभनयत्यादिज्ञानं प्रस्फुरितं भवति । सुमधुरस्वरेण यथावद् गीयमानानां पद्यानामाकर्णनेन गात्रेण च जायमानस्याऽनिर्वचनीयानन्दस्य तुलना न खलु केनापि सह कर्तुं शक्या । दृश्यते च व्याकरणकाव्यादिज्ञानकलितोऽपि विफलः छन्दोज्ञानेन तत्तच्छन्दोबद्धपद्यानामुच्चारे रचने गाने वा त्रुटितवचनः यथावल्लघुगुरुवर्णोच्चारे च विपर्यस्तो विद्वत्परिषदि भृशं हास्यास्पदो भवति ।
- अष्टाध्यायात्मकं स्वोपज्ञवृत्तिविभूषितं चेदं छन्दोऽनुशासनं विद्वज्जनमनःसुपरमतोषमुत्पादयत्साहित्यवियति चकास्ति शुक्रतारकमिव ।
... यद्यपि भरत-जयदेव-पिङ्गलप्रभृतिभिरपि विरचितानि सन्ति तत्तच्छन्दः सञ्चयरूपाणि प्रभूतानि शास्त्राणि, परं तानि सर्वाण्यपीदमतिशेते छन्दोऽनुशासनं सुवोधतया महार्थतया लघुस्वरूपतया च ।