________________
पुरोवचनम्
गुरुवरपूज्याचार्यश्रीविजयदेवसूरीश्वर
चरणाब्जचश्चरीको
विजयहेमचन्द्रसूरिः । विदितचरमेवैतदनवद्यविद्याविद्योतितान्तः करणानामनवरतनानाशास्त्राध्ययनाध्यापनलेखनादिपरिकर्मित शेमुषीनां विपश्चितां यत्-अनादिरय संसारमहीरुहः अस्य च मूलं क्रोधादयश्चत्वारः कषायाः, स्कन्धो हि नारक-तिर्यग-नरामरगतिचतुष्कम्, शाखासमूहो गर्भवासजन्मजरामरणानि, पत्रविस्तारः दारिद्रयाद्यनेकव्यसनोपनिपातः, पुष्पाणि प्रियविप्रयोगाप्रियसम्प्रयोगधननाशाद्यनेकव्याधिशतानि, तथा च फलं शारीरमानसोपचिततीव्रतरदुःखम् । अस्य च समूलमुन्मूलनम् नहि भवति ऐकान्तिकात्यन्तिकानाबाधानुपमेयानिर्वचनीयपरमानन्दभाजनमुक्तयपरपर्यायपरमपद प्राप्तिं विना, परमपदप्राप्तिश्च नहि भवति विना कृत्स्नकर्मक्षयात्मिकां कर्मनिर्जराम्, कर्मनिर्जरा च नहि भवति विशुद्धधर्माराधनमन्तरेण, विशुद्धधर्माराधना च नहि भवति अधिगतसर्वातिशयकलापाऽर्हद्भासितागमादिशास्त्रावबोधं विना, अतः शास्त्रावबोधः विशुद्धधर्माराधने, विशुद्धधर्माराधनं च कर्मनिर्जरायाम् , कर्मनिर्जरा च परमपदप्राप्तौ, तत्प्राप्तिश्च संसारमहाद्रुमस्योन्मूलने हेतुभिर्भवतीति फलितं भवति ।
ततश्च गवेषणीयं मतिमता सर्वप्रयत्नेन सर्वार्थसिद्धिबीजभूतस्य शास्त्रावबोधस्य निमित्तम् तच्च शब्दानुशासनज्ञानमेव ।
अतएवाप्रतिमप्रतिभाप्रागल्भ्यपराकृतसुरगुरुभिभूतभाविभवद्भावावभासनक्षमानुपमज्ञानबललब्धकलिकालसर्वज्ञेत्यन्वर्थविरुदधारकैः श्री हेमचन्द्राचार्य