SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन दिवस्पतिमानिभिरातुलितः प्रवलैः । अद्य हरिविमृशन्सचिवैः सह तद्विजये, त्वन्नवसंगतकल्पनमौपयिकं मनुते" पद्ममुखी सुरता च सद्यमुद्धरणसोपानकं चान्येषां ” २६६ मुगौ कामुकी । मुरिति मगणपंचकं गुरुश्च । यथा “ संवृत्तोऽयं संध्याकालः प्राप्तोऽस्ताद्रेः श्रृंगं भानुर्विस्फूर्जभि/तस्तोमैरेकीभूतं काष्ठाचक्रं । चापाकृष्टिं व्यातन्वानः कंदर्पोऽपि क्रीडत्युच्चैर्गच्छत्येतास्त्यक्तशंकं क्रीडास्थानं कामुक्योऽपि २६७ ० सुगौ वा ॥ सुरिति सगणपंचकं गुरुश्चेदियमपि कामुकी। यथा “ अपयाहि पितामहचित्तविलोभिनि धिक्त्वामयि कौशिक कामुकि न त्वमपि त्रपसे किं । असि हास्यपदं नलकूबरकामिनि यद्वः कुलिशातिदृढेऽत्र जिनेंद्रहृदि प्रविविक्षा" सोमडकमित्यन्ये २६८ ० नुगो चलधृतिः ।। नुरिति नगणपंचकं गुरुश्च । यथा “प्रणमदखिलसुरपतिकनकमुकुटस्फुटरुचिनिचितनखमणिकिरणचये । कुरु जिनचरणजलरुहि नमनरुचि चलधृतिमपजहि च विषयसुखधियं" २६९ °नुलावचलधृतिः । नुरिति नगणपंचकं लघुश्च । यथा “विललितचिकुरमधरनिहितदशनमविरल पुलकनिचितकुचयुग मयि । रतिरसरमसमणितमुखरितमिह विलसति तव सखि सुरतमचलधृति" २७० ०न्भौ जिगौ मंगलमंगना धैः॥ नभौ जिरिति जगणत्रयं गुरुश्च ॥ चैरिति चतुर्भिर्यतिः । यथा “कुटिलतां धृतवती गुरुभोगमदोद्धता, विदधती प्रलयवेपथुसादपरंपरां । विषधरीव पुरतः स्फुरता यतिनामहो, विचरतां सुगतिमार्गममंगलमंगना” २७१ भ्रनिगा ऋषभगजविलसित छैः। भरौ नगणत्रय गुरुश्च । छैरिति सप्तभिर्यतिः । यथा “ अद्भुततुंगमूर्तिरतिशयललितगतिर्दैव समग्रकर्मवन- विदलनरसिक । निर्भरमंतरंगरिपुबलविजयपटुर्नाथ दधासि तत्त्वमृषभगजविलसितं' मत्तगजविलसितमिति भरतः २७२ ० निजस्गा ललितपदं डैः ॥ निरिति नगणत्रयं जसगाश्च । डैरिति पंचभिर्यतिः । यथा "चुलुक्यकुलजलनिधिशशांक तव दीनं, रिपुनिवहमतितरलकातरमुपेक्ष्य । त्वदसिरुचितमसिवितते युधि भवंतं, ललितपदमभिसरति वीर जयलक्ष्मीः "
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy