________________
७५
ऐतरेयकेऽपि “तस्या वाचोऽवपादादविभयुः - तमेतेषु सप्तसु छन्दः खश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् - यदवारयन् —तद्वारयन्तीयस्य वारयन्तीयत्वम् । तस्या वाच एतावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दांस्यपादधुः । तेषामतित्रीण्यतिरिच्यन्ते । न त्रीण्युदत्तवत् स बृहतीमेवास्पृशत् - द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः: - कतमा सा देवाक्षरा बृहती - यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः– द्वादशाष्टकाः – द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती यस्यां तत् प्रत्यतिष्ठदिति । यानि च च्छन्दांस्यत्यरिच्यन्त यानि च नोदभवन्— तानि निर्वार्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहती । मामेव भूत्वा मामुपसंश्रयतेति । चतुर्भिरक्षरैरनुष्टुब् बृहतीं नोदभवत् । चतुर्भिरक्षरैः पचिर्बृहतीमत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् । अष्टाभिरक्षरैरुष्णिग् । बृहतीं नोदभवत् । अष्टाभिरक्षरैखिष्टुप् बृहतीमत्यरिच्यते । तस्यामेतान्यष्टावक्षराण्यपच्छियादधात् । ते बृहती एव भूत्वा बृहतीमुपसममश्रयताम् ॥ द्वादशभिरनरैर्गायत्री बृहतीं नोदभवत्, द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् ॥” इत्याम्नायते । तत्रान्तरेण च्छन्दोवेदमशक्यमासां गायत्र्युष्णिगनुष्टुभामनुद्भवनमन्यासां च पङ्क्तित्रिष्टुब्जगतीनामतिरेचनं यथायथावद्विज्ञातुमित्यारम्भणीयछन्दोवेदः ॥ १९ ॥ इतीमान्यन्यानि चैवंविधानि भूयांसि प्रयोजनानि पश्याम इत्यारम्भणीयश्छन्दोवेदः ॥२०॥
· अथ कश्चिद् ब्रूयात्- यान्येतानि प्रयोजनान्युक्तानि ततो नु खलु वैदिकानामेव च्छन्दसां विधानशास्त्रस्यावश्यकत्वं प्राप्नोति न पुनर्लौकिकानामपीति । तत्रोच्यतेत्रिविधानि हि वाचां छन्दांसि; कानिचिद्वैदिकान्येव, कानिचिद्वैदिकानि च लौकिकानि च, कानिचित् पुनर्लौकिकान्येव । तत्रावश्यमुभयेषां निदर्शनाय शास्त्रारम्भः प्रवर्तनीयस्तेन यदि—“घटायोन्मीलितं चक्षुः किमन्यन्न प्रकाशयेत् ?” – इति न्यायेन लौकिकान्यपि दश्यॆरन् : तत्तर्हि तावता छन्दोयाथात्म्यविजिज्ञासूनां छन्दोविज्ञानसौकर्यानुग्रहो भवति । अत एव तु वैदिकांनि च्छन्दांसि साकल्येन प्रदर्श्य लौकिकानां दिग्दर्शनेनानुगृह्णाति भगवान् पिङ्गलाचार्यः । अनेन चाविशिष्टबुद्धिरपि तानि तानि छन्दोवृत्तानि यथावदवगम्य तद्रचनाभिनयादिना कृतकृत्यः कवितानन्दमासादयेत् ॥ -
"काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥” ( का. प्र. १।२ )
इति हि भूयांसि प्रयोजनानि काव्यस्य पठन्ति । छन्दोभिनेयं तु वाक्यं रसोद्बोधे काव्यमित्युच्यते । तदतश्छन्दोभङ्गो रसापकर्षितया काव्यत्वव्याघातको भवति ।
तस्माच्च छन्दोभङ्गदोषेण काव्यप्रयोजनेभ्यो माव्यतिरेचिष्महीत्यपेक्षमाणानामारम्भ० णीयं लौकिकानामपि च्छन्दसां विज्ञानशास्त्रम् । उक्तं च प्राकृते पैनले—