________________
७३
• “अतिच्छन्दसः शंसति । छन्दसां वै यो रसोऽत्यक्षरत् सोऽतिच्छन्दसमभ्यत्यक्षत् । तदतिच्छन्दसोऽतिच्छन्दस्त्वम् । सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत् षोळशी । तद्यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिमितेन षोळशिना राधोति य एवं वेद ।" (ऐ.बा.१६॥३) इत्यैतरेयकाणां षोडशिब्राह्मणे श्रूयते। तदिदमतिच्छन्दसः शंसेयं षोडशिना च राध्यामित्यारम्भणीयश्छन्दोवेदः॥१६॥
"सोमो वै राजाऽमुष्मिलोके आसीत् । तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मान्त्सोमो राजागच्छेदिति । तेऽब्रुवंश्छन्दांसि । यूयं न इमं सोमं राजानमाहरतेति । तथेति ते सुपर्णा भूत्वोदपतन् । 'छन्दांसि वै तत्सोमं राजानमच्छा चरन् । तानि ह तर्हि चतुरक्षराणि चतुरक्षराण्येव छन्दांस्यासन् सा जगती चतुरक्षरा प्रथमोदपतत् । सा पतित्वार्धमध्वनो गत्वाश्राम्यत् । सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत् । तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति। जागता हि पक्षकः । जगती हि तानाहरत् ॥ अथ त्रिष्टबुदपतत्। सा पतित्वा भूयोऽर्द्धादध्वनो गत्वाश्राम्यत् । सा परास्सैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्य. वापतत् । तलामपन्दने दक्षिणा नीयन्ते त्रिष्टुभो लोके। त्रिष्टुब्भिता अहरत् ॥ १॥ ते देवा अब्रुवन् गायत्रीम् । त्वं न इमं सोमं राजानमाहरेति सा तथेसब्रवीत् । “सा पतित्वा · सोमपालान् भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णात् । यानि चेतरे छन्दसी अक्षराण्यजिहतां तानि चोपसमगृभ्णात् ॥२॥ सा यद्दक्षिणेन पदा समगृभ्णात् । तत् प्रातःसवनमभवत् । तद्गायत्री समायतनमकुरुत। तस्मात् तत् समृद्धतमं मन्यन्ते सर्वेषां सवनानाम् ।...अथ यत्सव्येन पदा समगृभ्णात् तन्माध्यन्दिनं सवनमभवत् । तद्वितंसत तद्वितस्तं नान्वाप्नोत् पूर्व सवनम् । ते देवाः प्राजिज्ञासन्त। तस्मिंत्रिष्टुभं छन्दसामदधुरिन्दं देवतानाम् । तेन तत् समावद्वीर्यमभवत् पूर्वेण सवनेन। .. अथ यन्मुखेन समगृभ्णात् तत् तृतीयसवनमभवत् । तस्य पतन्ती रसमधयत् । तद्धीतरसं नान्वाप्नोत् पूर्वे सवने। ते देवाः प्राजिज्ञासन्त । तत्पशुष्वपश्यन् । तद्यदाशिरमवनयन्ति आज्ये, पशुना चरन्ति तेन तत् समावद्वीर्यमभवत् पूर्वाभ्यां सवनाभ्याम् ॥ ३॥ ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेताम् । वित्तं नावक्षराण्यनुपर्यागुरिति । नेत्यब्रवीगायत्री । यथावित्तमेव न इति । ते देवेषु प्रश्नमैताम् । ते देवा अब्रुवन्–यथा वित्तमेव व इति। तस्माद्धाप्येतर्हि वित्त्यां व्याहुः-यथावित्तमेव न इति । ततो वा अष्टाक्षरा गायत्र्यभवत् । त्र्यक्षरा त्रिष्टुप् । एकाक्षरा जगती । साष्टाक्षरा गायत्री. प्रातःसवनमुदयच्छत् नाशकोत्रिष्टुप् त्र्यक्षरा माध्यन्दिनं सवनमुद्यन्तुम् । तां गायत्र्यब्रवीद्-अन्यापि मेऽत्रास्त्विति । सा तथेत्यब्रवीत् त्रिष्टुप् । तां वे मैतैरष्टामिरक्षरैरुपसन्धेहीति । तयेति तामुपसमदधात्"सैकादशाक्षरा भूत्वा माध्यन्दिनं सवनमुदयच्छत् । नाशकोजगहोकाक्षरा तृतीयसवनमुद्यन्तुम् । तां गायत्र्यवीद्-आयान्यपि मेऽत्रास्त्विति । सा