________________
। 'तदाहुः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि जनयेदिति । एषा वाव त्रिरनूका सर्वाणि च्छन्दांसि भवति । एषा छन्दसां प्रजातिः।" (ऐ. ब्रा. ६) इति
भूयते । तदतश्छन्दःप्रजननविद्याया होतृत्वमासादयेयमित्यारम्भणीयश्छन्दोवेदः ॥११॥ . : "अमिर्वे देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः । आमावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्ति । अग्निर्वै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्ये तन्वौ यदमिश्च विष्णुश्च । तद्यदानावैष्णवं पुरोडाशं निर्वपन्ति । अन्तत एव तद्देवान्ध्रुवन्ति । . तदाहुर्यदेकादशकपालः पुरोळाशो द्वावग्नाविष्णू । कैनयोस्तत्र क्लप्तिः, का विभक्तिरिति । अष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमनेश्छन्दः त्रिकपालो वैष्णवबिहीदं विष्णुर्व्यक्रमत । सैनयोस्तत्र क्लप्तिः सा विभक्तिरि" (ऐ. ब्रा. ११) त्याम्नायते । तत्रैवमेकादशकपाले देवतयोः क्लृप्तिविभक्ती कर्तुं पारयेमेत्यारम्भणीयश्छन्दोवेदः ॥ १२ ॥ . "तेजो वै ब्रह्मवर्चसं गायत्री । आयुर्वा उष्णिग् । वाग्वा अनुष्टुप् । श्री यशश्छन्दसां बृहती। पाङ्लो वै यज्ञः । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । जागता वै पशवः।" (ऐ. ब्रा. ११६) इति श्रयते । तदतस्तत्तच्छन्दोयाज्यामनुरुन्धाना यथा तत्तत्कामेषु कृतकृत्याः स्युरित्यारम्भणीयश्छन्दोवेदः ॥१३॥ .. “ते देवा अब्रुवन्-विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा । त्रयस्त्रिंशद्वै देवाः । अष्टौ वसव एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । देवता अक्ष. रभाजः करोति । अक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेत-अनायतनवान् स्यादिति अविराजास्य यजेद् गायत्र्या वा त्रिष्टुभा वान्चे वा छन्दसा वषट् कुर्यादनायतनवन्तमेवैनं तत्करोति । यं कामयेत-आयतनवान्न स्यादिति । विराजास्य यजेदायतनवन्तमेवैनं तत्करोति ।" (ऐ. ब्रा. १२।११) इति श्रूयते । तदन्तरेण छन्दोवेदमवाक्यं तु यथाकामं याज्या विशेषोपधानमित्यारम्भणीयश्छन्दोवेदः ॥ १४ ॥ .. "यो.धाता स वषट्कारः.."यानुमतिः सा गायत्री "याराका सा त्रिष्टुप् या सिनीवाली सा जगती.. या कुहूः सानुष्टुप् । एतानि वा व सर्वाणि च्छन्दांसि गायत्रं त्रैषुभं जागतमानुष्टुभमन्वन्यानि । एतानि हि यज्ञे प्रतमामिव क्रियन्ते। एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद । (ऐ. ब्रा. १३॥३) यः सूर्यः स धाता स उ एव वषट्कारः या द्यौः सानुमतिः सो एव गायत्री योषाः सा राका सो एव त्रिष्टुप •. या गौः सा सिनीवाली सो एव जगती. या पृथिवी सा कुहः सो एवानुष्टुप् । एतानि वाव सर्वाणि च्छन्दांसि। गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि एतानि हि यज्ञे प्रतमामिव क्रियन्ते" (ऐ. बा. १५।४) इत्यायैतरेयके श्रूयते ॥ मैत्रायणीयानां राजसूयब्राह्मणेऽप्यानायते-"गायत्र्यनुमतिः । त्रिष्टुब् राका । जगती सिनीवाली। कुहूरनुष्टुप् । धाता वषट्कारः॥ या पूर्वा पौर्णमासी सानुमतिः योत्तरा सा राका। या पूर्वामावस्या सा सिनीवाली । योत्तरा सा कुहूः। चन्द्रमा एव धाता।' इत्यादि। तदन्तरेण च्छन्दोवेदमशक्यमासामनुमतिराकासिनीवालीकुहूनां सर्वच्छन्दोभिःसारूप्यमवगन्तुमित्यारम्भणीयश्छन्द्रोवेदः॥१५॥