SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६७ नेष्वहःसु ब्रह्मसाम्नोभिवर्तस्यैकत्वेऽपि प्रगाथाः प्रत्यहं भेदेन प्रयुज्यन्ते । तत्र के ते स्तोत्रीयाः प्रगाथा ? इत्याकाङ्क्षायाम् " गवसु माः सु बार्हताः प्रगाथा आप्यन्ते । तेष्वातेषु छन्दसी संयुज्यैतव्यम् । चतुरुत्तरैरेव छन्दोभिरेतव्यम् । तदाहुरनवक्लृप्तानि वा एतानि छन्दांसि माध्यन्दिने, बृहत्या चैव त्रिष्टुभा चैतव्यम्" इत्येवं ताण्डिश्रुती दाशतयीसमाम्नातेनाष्टाविंशतिशतप्रमितप्रगाथतृचसमुदायेन तावदहःसु प्रगाथलामे तदतिरिक्तेषु त्रयोदशस्वहःसु प्रगाथलाभार्थं त्रयः पक्षा विधीयन्ते । ते चैते प्रगाथा न चान्तरेण शास्त्रमध्यवसितुं शक्याः, नापि वा तमन्तरेण प्रगाथप्रयोगं ज्योतिष्टोमः पर्याप्नोति; एवमितरत्राऽप्येकान्ततश्छन्दोविज्ञानमपेक्ष्यते प्रतियज्ञम् । अत एव च "यो ह वा अविदितार्षेयछन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वच्छेति गर्त वा पद्यते वा म्रियते पापीयान् भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात् ” ( छं.बा. ३।७५) इति श्रूयते । 'मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान् ऋषीन् । कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥ १ ॥ अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च । योध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ॥ २ ॥ ऋषिच्छन्दोदैवतानि ब्राह्मणार्थ खराद्यपि । अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥ इति स्मर्यते च । भगवान् कात्यायनोऽप्याह - "छन्दांसि गायत्र्यादीनि एतान्यांवेदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजति याजयते तस्य ब्रह्म निवार्य मानया भवति । अथान्तरा श्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत् - अथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा वेष्ट्वा तत्फलेन युज्यते” इति ॥ तस्मात् सन्त्येव भूयांसि छन्दः शास्त्रस्य प्रयोजनानि तद्विज्ञानमन्तरेण चायं यज्ञवेदो निर्वीर्यो यातयामो भवति, तस्मादस्ति यज्ञवेदोपकारकत्वं छन्दःशास्त्रंस्य— यद्यपि दृष्टान्तमुद्रया नाट्यनृत्यवाद्यगेयवेदानामुत्तरोनरस्य पूर्वपूर्ववेदोपकारकन्नमाख्यायते तावतापि छन्दोवेदस्यैव सर्वोपकारकत्वमाख्यातं भवति; गेयवेदस्य छन्दोवेदानतिरिक्तन्वान् । तस्मादस्ति वाद्यादिवेदोपकारकत्वं छन्दः शास्त्रस्य ॥ - अथ किं बहुना ? येयं शिल्पविद्या लोके निनान्तफलोपधायकतया प्रतिपद्यते, गया नूनमर्थच्छन्दोविद्योपजीव्या भवति - अर्थच्छन्दोविद्यानतिरिक्तैव वा । 'शिल्पं छन्द' ति श्रुतेः । सर्व चेदं सचराचरं जगन्मण्डलं दृश्यते विश्वकर्मणः शिल्पम् । तथा प्राणिजा-नैरपि क्रियमाणं तत्तत्कर्म दृश्यते शिल्पमेवानुलम्बितम् । सर्वे व विद्यानिवन्धा रचनावैचित्रयात्मकेन केनापि शिल्पेनैवानुगता भवन्ति । तस्माच्छित्यविद्यात्ममाप्य सर्ववेदोपकारकत्वं छन्दः शास्त्रस्य ॥ १ ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy