________________
२
क्षरा वाग् जागती, इत्येवमनेकधा लक्षष्याः भूयन्ते । ताथ सर्वा एवैता गायभ्यविभो जगत्यच लक्षणमर्हन्ति । तत्र यदुच्यते- 'अक्षरपरिमाणं छन्द इति'; बाचिकेष्वेवैतदवकाशं लभते नान्यत्रेत्यनैकान्तिकं भवति । न चानैकान्तिके लक्षणशब्दः प्रवर्तते । तस्मादलक्षणमेतत् । स्यादेव तु तेषु तेषु सर्वेष्वनुगतः कश्चन विलक्षणो धर्मो मदनुरोधेन छन्दः शब्दः प्रवर्तते । तमेतं धर्म पृच्छामः - किमिदं छन्द इति ॥ अथ लक्षण्योपपरीक्षा --
मान्येतानि गायत्र्यादीन्यभिधानानि श्रूयन्ते; किमेते `महच्छाशब्दाः, उत रूढाः, योगरूढाः, यौगिकरूढाः, यौगिका वा ? । अथवा क्वचिन्मुख्याः, अपरत्र भक्त्या प्रयुज्यन्ते ! । तत्र तावत् - 'गायतो मुखादुदपतत्' इति गायत्र्याः, 'गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टयेभति' इत्यनुष्टुभव निर्वचनश्रवणात्, 'गायन्तं त्रायते यस्मागायत्रीत्युच्यते बुधैः ।' इत्यादिस्मरणाच्चावयवार्थस्फोटाच नेते यदृच्छाशब्दा इति शक्यं वक्तुम् । नाप्येते रूढा भवितुं युज्यन्ते । " तदाहुर्यदन्यानि छन्दांसि बर्षीयांसि भूयोऽक्षरतराणि, अथ कस्मादेतां बृहतीत्याचक्षत इति । एतया हि देवा इमांलोकानाश्रुवत । तै वै दशभिरेवाक्षरैरिमं लोकमा श्रुवत, दशभिरंतरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतसो दिशः, द्वाभ्यामेवास्मिन् लोके प्रत्यतिष्ठन्, तस्मादेनां बृहतीत्याचक्षते ॥” ( ऐ. बा. ) इचैवमादिभिः श्रुतिभिरेषामवयवार्थसापेक्षत्वावगमात् । न चाप्येते योगरूढा भवन्तिः । “सप्तधा वै वागवदत्” । 'अ॒क्षरे॑ण॒ मिमते स॒प्तवाणः' इत्येवमादिश्रुतिसिद्धेषु वाग्विग्छित्तिविशेषेष्वेव तु भवानिदानीं गायत्र्यादीन् शब्दानाचष्टे । तत्र नैतेषु गायत्र्यादीनामवयवार्थ समन्वयः स्वारस्येन शक्यते कर्तुम् । शुद्धं यौगिकत्वमप्यत एवं
त्याख्यातं भवति । द्रव्यशब्दत्वगुणशब्दत्वक्रियाशब्दत्वानामन्यतमस्याप्यत्र दुःस्थत्वात् । ततर्हि स्यादेवम्- न केवलं वाग्विशेषा एवैतेषां गायत्र्यादिशब्दानां विषया : वन्तीति, किं तर्हि - सन्त्येव केचिदन्येऽपि साध्यदेवादयो द्रविणादयो वा वेदप्रसिद्धा भयत्र्यादिशब्दप्रतिपाद्याः, अथ वाग्विशेषाश्च । तेषु कचिदिमे यौगिकाः, अपरत्र रूढाः स्युः । अथवा क्वचिन्मुख्या अपरत्र भक्ताः स्युः । तत्र न ज्ञायते कुत्र कीदृशा ? इति । किंच भूयसा श्रूयते गायत्र्यादीनामाच्छादकत्वाच्छन्दस्त्वमस्तीति । तत्र न ज्ञायते कथमेषां वाग्विशेषाणां साध्यदेवानां द्रविणानामन्येषां वा किमाच्छादकत्व - मस्तीति । आच्छादकत्वमेवैतच्छन्दः शब्दस्य प्रवृत्तिनिमित्तमुत गायत्र्यादिशब्द संबन्धमात्रमथवान्यदेव किंचित् ? । तस्मादुत्तिष्ठते जिज्ञासा - किमिदं छन्द ? इति ॥
अथाप्येतदन्यथान्यथा बहुधा श्रूयते वेदे । तथाहि
( १ ) " एते वाव देवाः प्रातर्यावाणो यदभिरुषा अश्विनौ ।
त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति ।” इति ।
तदेतन शायते— कथं ते सप्तभिश्छन्दोभिरागच्छन्ति, कानि वा तत्र छन्दांसि ?
(२) "छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन् । गायत्री, त्रिनुभव जगत्यै