SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०२ काव्यमाला स्मरणम्-'अन्तादिव (पा० सू० ६३११८५)। तत्र पूर्वान्तवद्भावे उदाहरणम्'स्थादस्थानो-पगतयमुनासंगमेवाभिरामा' (मे. सं. १।५१)। 'जम्भारातीभकुम्भो, अवमिव दधतः' इत्यादि। तथा..... "दिकालायनवच्छिन्ना-नन्तचिन्मात्रमूर्तये। खानुभूत्येकमानाय नमः शान्ताय तेजसे ॥' (नी. श. १) इत्यादि । परादिवद्भावे उदाहरणम्- , ............... . । 'स्कन्धं विन्ध्यादिबुद्ध्या, निकषति महिष-स्थाहितोऽसूनहा त्' इत्यादि। 'शूलं शूलं तु गाढं प्रहर हर! हृषीकेश ! केशोऽपि वक-श्चकेणाकारि किं ते' इत्यादि । तत्र हि खरस्य परादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात्तदादिवद्भवति। 'यदि पूर्वापरौ भागौ न स्यातामेकवर्णको' इत्यन्तादिवद्भावविधावपि संबध्यते । तेन 'अस्या वका-जमवजितपूर्णेन्दुशोभं विभाति' इत्येवंविधा यतिर्न भवति। 'यणादेशः परादिवत्' इत्यस्योदाहरणम् . 'विततघनतुषारक्षोदशुभ्रांशुपूर्वा खविरलपदमालां श्यामलामुल्लिखन्तः' इत्यादि। 'नित्यं प्राक्पदसंबन्धाश्चादयः प्राक्पदान्तवत्' । तेभ्यः पूर्वा, यतिन कर्तव्येत्यर्थः । तत्रोदाहरणम्'खादु खच्छं च, हिमसलिलं प्रीतये कस्य न स्यात्' ? इत्यादि। नित्यं प्राक्पदसंबन्धा इति किम् ? । अन्येषां पूर्वपदान्तवद्भावो माभूत् । तद् यथा'मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः' (मे. सं. ११३८) -तथा--'इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे' (मे. सं. १।५) इत्यादि । .. 'परेण नित्यसंबन्धाः प्रादयश्च परादिवत्' । तेभ्यः परा यतिर्न भवतीत्यर्थः । तत्रोदाहरणम्"दुःख मे प्र-क्षिपति हृदये दुःसहस्त्वद्वियोगः' इत्यादि। परेण नित्यसंबन्धा इति किम् ? । कर्मप्रवचनीयेभ्यः परापि यतियथा स्यात् इति, तत्रोदाहरणम् 'प्रियं प्रतिस्फुरत्पादे मन्दायन्ते नखत्विषः ।' 'श्रेयांसि बहुविघ्नानि भवन्ति महतामपि' इत्यादि । अयं तु चादीनां प्रादीनां चैकाक्षरत्वेनकाक्षराणामेव पादान्ते यतावन्तादिवद्भाव इष्यते, न त्वनेकाक्षराणां पदमध्ये यतौ। तत्र हि पदमध्येऽपि चामीकरादिष्विव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनामुदाहरणम् 'प्रत्यादेशादपि च मधुनो विस्मृतविलासम्' (मे. सं. २।२८) इति ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy