________________
१००
'काव्यमाला !
गु०
« }
किमपरमिह कमलमुखि ! सुखमनुभवति मम हृदयकमलमधुना ॥
(२९).
अर्धसमवृत्ताधिकारो निवृत्तः ।
इति भट्टहलायुधविरचितायां छन्दोवृत्तौ पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः ।
यतिर्विच्छेदः । ६ । १ ॥
1
विच्छिद्यते विभज्यते पदपाठोऽस्मिन्निति विच्छेदो विश्रामस्थानं, स च येतिरित्युच्यते । नन्वत्र शास्त्रे यतिशब्देन व्यवहारादर्शनान्निरर्थकं संज्ञाकरणम् ! । नैष दोषः, यतिरित्या - गमादिष्वाचार्यपारम्पर्यागता संज्ञेयं ' तनुमध्यादि' वत् । तस्याः शिष्यव्युत्पत्त्यर्थमर्थकथनम् 'यतिर्विच्छेदः' इति । अस्ति च लोके शास्त्रान्तरेषु च यतिसंज्ञाव्यवहारः । अपि च 'यतिः' इत्यधिकार आसप्तमाध्यायपरिसमाप्तेः समुद्रेन्द्रियरसादिनिर्देशेषूपतिष्ठते । समुद्रा - दिशब्दाः साकाङ्क्षत्वात् ‘यतिः' इत्यनेनैव संबध्यन्ते । यतिशब्दस्याधिकरणव्युत्पत्त्या समुद्राद्यवच्छिन्नेष्वक्षरेषु यतिः कर्तव्येत्यर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषद्भवति''यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ कचित्तु पदमध्येऽपि समुद्रादौ वतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ በ पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ नित्यं प्राक्पदसंबन्धाश्वादयः प्राक्पदान्तवत् । परेण नित्यसंबन्धाः प्रादयश्च परादिवत् ॥'
-
‘यतिः सर्वत्र पादान्ते' इत्यस्योदाहरणम् – 'विशुद्धज्ञानदेहाय ' ( मी. लो. वा. 919 ) इत्यादि । तस्यैव प्रत्युदाहरणम्
'नमस्तस्मै महादेवा, - य शशाङ्कार्धधारिणे इत्यादि ।
१. यतिश्छन्दोऽधिरूढानां शब्दानां या विधारणा ।' (का. लं. ४।२४ ) इति भामहः । २. ' पादान्त एव केचिच्च पादमध्येऽपि केचन । यतिं वदन्ति तत्रापि विशेषः स्फुटमुच्यते ॥ धातुनामस्वभिन्नेषु यतिर्भवति नान्यथा । उपसर्गान्ततरछेदः प्रत्ययादौ तयोः कचित् ॥ स्वरसन्धौ तु सम्प्राप्तसौन्दर्याद्यतिरिच्यते । तु चादयो न प्रयोज्या विच्छेदात्परतस्तथा ॥ प्रत्ययादौ यतिर्नानां षष्ठ्यामेदेति केचन । ' - इति मन्दारमरन्दे ( शे . बि . ) ।