SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सर्वः । अब्यो हीदं. सर्व आयदे ।। ३५, मोऽब्रवीत् --ज्यायान् वा अतोऽस्मि बेहोव मे नामेति । तमब्रवीन्-शुपतिरसीति । नवदस तत्रामारोत् । ओषधयखपमभवन् । ओषधयो वै पशुपतिः । तम्मायदा पशद ओषधीलभन्तेऽथ पतीयन्ति ॥ १६ ॥ सोऽब्रवीत्-ज्याथान् वा अतोऽस्मि धेह्येव में नामेति । नमब्रवीत--- उग्रोऽसीति । तबदस तमामाकरोत् । वायुलपमभवत् । वायुवा उग्रः । तस्मायदा बलबद्वात्युमो वातीत्साहुः ॥ १७ ॥ सोऽतीत-ज्यायान् वा अतोऽस्मि घेखेव में नामेति । तमब्रवीत् ---अशनिरसीति । तथदस्य रनामाकरोत्---विद्युत्तद्रूपमभवत् । विद्युद्वा अशनिवार्य विद्युद्धन्ति, अशनिरवधीदिल्याहुः ॥ १०॥ सोऽब्रवीत्ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत् --भवोऽसीति । तद्यदस्य तन्नामाकरोत् पर्जन्यस्तद्रूपमभवत् । पर्जन्यो वै भवः । पर्जन्याद्धीदं सर्व भवति ॥१९॥ सोऽब्रवीत्-ज्यायान्वा अतोऽस्मि धेखेव मे नामेति । तमब्रवीत्-महान् देवोऽसीति । तद्यदस्य तमामाकरोत् चन्द्रमास्तद्रूपमभवत् । प्रजापति चन्द्रमाः, प्रजापति महान्देवः ॥ २०॥ सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत्-ईशानोऽसीति । तद्यदस्य तन्नामाकरोत् आदित्यस्तद्रूपमभवत् । आदित्यो बा. ईशानः । आदित्यो ह्यस्य सर्वस्येष्टे ॥ २१॥ सोऽब्रवीत् एतावान् वा अम्मि मामेतः परो नाम धा इति । तान्येतान्यष्टावमिरूपाणि । कुमारो नवमः । सैवानेस्त्रिवृत्ता । यद्ववाष्टावामरूपाणि । अष्टाक्षरा गायत्री तस्मादाहुर्गायत्रोऽग्निांति । सोऽयं कुमारो रूपाण्यनुप्राविशनवा अमि कुमारमिव पश्यन्त्येतान्येवास्य रूपाणि पश्यन्त्येतानि हि.रूपाण्यनुप्राविशत् ॥ २२ ॥" ' इत्येतावता महता प्रबन्धेनामीभिरफेनमृसिकताशर्कराश्मायोहिरण्यरूपैरष्टाभिरक्षरैः परिच्छेदादमुष्याः पृथिव्या. भूतगायत्रीत्वमञ्जसोपपादितम् । एवं पृथ्वीजलतेजोवावा. काशसूर्यचन्द्रयजमानरूपैरष्टाभिरखरैः परिच्छेदादमुष्याने रुद्रकुमारस्य भूतगायत्रीत्वमञ्जसैवोपपादितम् । एवमेवैतच्छ्रुतितात्पर्यानुसारिभिरन्यत्राप्यार्थिकप्राणानामक्षरत्वमभ्युपगम्य ततः परिच्छेदादन्यान्या गायत्र्यः प्रतिपाद्यन्ते । यथा हि महाभारते भीष्मपर्वणि 'सिंहा व्याघ्रा वराहाश्च महिषा वारपाखथा । ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥ गौरजाविमनुष्याच अवाश्वतरगर्दभाः। एते प्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ एते वै पशवो राजन् प्राम्यारण्याश्चतुर्दश । वेदोकाः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ उद्भिजाः स्थावराः प्रोकारतेषां पचैव जातयः । · वृक्षगुल्मलतावन्यस्त्वक्सारास्तृणजातयः ।..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy