________________
४ अध्यायः] . छन्दःशास्त्रम् । देवेषु यज्ञमेरयेमम् (९)। विष्ट कृच्चामे होताभूः (१०)। वसुवने वसुधेयस्य नमोः . वाके वीहि (११)॥' (तैत्तिरीयब्राह्मणे-अ० ३ अ६ अ० १४ मं० १) द्वानवत्यक्षरं विकृतिः। यथा
इमे सोमाः सुरामाणः (१)। छागैर्न मेषैर्ऋषभः सुताः (२)। शष्पैर्न तोक्ममिः (३)। लाजैर्महस्वन्तः (१)। मदा मासरेण परिष्कृताः (५)। शुकाः पयस्वन्तोऽमृताः (६)। प्रस्थिता वो मधुश्रुतः (७) । तान॒श्विना सरस्वती (6) न्द्रः सुत्रामा वृत्रहा (९)। जुषन्ता सोम्यं मधु (१०) पिबन्तु मदन्तु वियन्तु सोमम् (११)॥' (तैत्तिरीयब्राह्मणे-अ० २ प्र० ६ अ० ११) .
अष्टाशीत्यक्षरमाकृतिः। यथा' 'तच्चक्षुर्देवहित (१) पुरस्ताच्छुक्रमुच्चरत् (२)। पश्येम शरदः शतं (३) जीवैम शरदः शतं () नन्दाम शरदः शतं (५) मोदाम शरदः शतं (६) भाम शरदः शत५ (७) शृणाम शरदः शतं (८) प्रबवाम शरदः शत (९) मर्जीताः स्याम शरदः शतं (१०) ज्योक्च सूर्य दृशे ॥' (तैत्तिरीयारण्यके-प्र० ४ अ० ४२ मं० २२ ।
चतुरशीत्यक्षरं प्रकृतिः । यथा'अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः (१) । पापेभ्यो रचन्ताम् (२)। यदा पापमकार्षम् (३)। मनसा वाचा हस्ताभ्याम् (४)। पयामुदरेण शिक्षा (५)। अहस्तदवलुम्पतु (६)। यत्किंच दुरितं मर्यि (७)। इदमहं माममृतयोनौ (८) । सत्ये ज्योतिषि जुहोमि स्वाहा (९)॥' (तै. आ० प्र० १० अ० २४)
प्रकृत्या चोपसर्गवर्जितः। ४।४॥ उपसर्गेण वर्जितः शुद्धः कृतिशब्दः प्रकृत्या खरूपेणैवावतिष्ठते । तेनैतदुक्तं भवतिअशीत्यक्षरं छन्दः ‘कृतिः' नाम । यथा- . - १. कात्यायनेन त्वतिच्छन्दसां पादनियमविशेष उक्त:--'पादा अतिजगत्यास्तु त्रयो द्वादशकाः परौ । अष्टको शक्करीपादाः सप्तैवाष्टाक्षराः स्मृताः ॥१॥ अतिशावरपादौ द्वावादितः षोडशाक्षरौ। जागतोऽथाष्टका वष्टिपादाः षोडशकास्त्रयः॥२॥ अष्टको चात्यष्टिपादौ जागतौ चाष्टकास्त्रयः। जागतश्चाष्टकश्चाथ धृतिपादौ तु जागतौ ॥३॥ पादारूयोऽष्टकाचाथ पो. डशाक्षर एव च । अष्टकश्चाथातिधृतौ द्वौ पादौ जागती ततः॥४॥ त्रयोऽष्टका जागतश्च तथाष्टाक्षरकावपि । परः सप्तकपादास्तु प्रसङ्गात्खयमीरिताः ॥५॥” इति। शौनकोऽप्याह-'सन्त्यतिच्छन्दसां पाझ एकोत्कर्षेण जागतात् । षोडशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः ॥' (ऋ० प्रा० ११५८) इति । एक एवाटादशाक्षरः-'अभि त्यं देवं सवितारमोण्योः कविक्रतु (१) मामि सत्यसवं रखधामभि प्रियं मतिं कविम् (२)। ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि (३) हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः (१) ॥' (आश्व० श्री. सू० ४।६ शु० य० ४।२५) इत्यस्यामृचि द्वितीयः।