________________
३ अध्यायः
छन्दःशास्त्रम् ।
मध्येऽन्ते च ।३।२५॥ जागतयोः पादयोर्मध्येऽन्ते च यदा गायत्रः पादो भवति, तदाप्यनुष्टुबेव स्यात् । यथा'पर्यषु प्रधन्व वाजसातये (१) परिवृत्राणि सक्षणिः (२)। द्विषस्तरध्या ऋणया न ईयसे (३) ॥' (ऋग्वेदे-अ० ७ अ०५ व० २२ मं० १) अन्तपक्ष उदाहरणम्'मा कमै धातमभ्यमित्रिणे नो (1) माकुत्रा नो गृहेम्यो धेनवों गुः (२)। स्तनाभुजो शिश्वीः (३)॥' (ऋग्वेदे-अ० १ ० ८ व० २३ मं० ३)
इत्यनुष्टुबंधिकारः। १.-२. 'प्रधनुव, 'अधिया,' इत्युवियशब्देन पादपूर्तिः. ३.-४. 'अभिय, 'अशिशुवी' इति पादपूर्तिः । ५. 'अनुष्टुबनुष्टोभनात् । गायत्रीमेव त्रिपदां सती चतुर्थेन पादेनानुष्टोभतीति च ब्राह्मणम् ।' इति यास्कः (नि. ॥१२॥९)।
क्वचिदयं शब्दो हान्तोऽपि दृश्यते । यथा-'द्वात्रिशदक्षरानुष्टुङ ।' (तै० सं० ७४।४) 'सा वा ए॒षगैनुष्टुग्वार्गनुष्टुक् ।' (तै० सं० ६॥१॥२) अनुष्टुप्रथमा भवति । अनुष्टुगुत्तमा । वाग्वा अनुष्टुक् ।' (तै० ब्रा० ११८५८) इत्यादौ ।
सर्वानुक्रमणिकायां कात्यायनेन तु–'तृतीयमनुष्टुप्, चत्वारोऽष्टकाः [१] पञ्च पञ्चकाः षट्कश्चैको महापदपङ्क्तिः [२] जागतावष्टकश्च कृतिः [३] मध्ये चेदष्टकः पिपीलिकमध्या [४] नवकयोर्मध्ये जागतः काविराट् [५] नववैराजत्रयोदशैनष्टरूपी [६] दशकास्त्रयो विराट् [७] एकादशका वा[८' (ऋ० सर्वा० ६) इत्यष्टावनुष्टुभो मेदा उक्ताः। तत्र[9] अनुष्टुप् उदाहृता ( ३।२३)। [२] महापदपतिः'तव स्वादिष्ठा(१) मे सन्दृष्टि (२) रिदा चिदह (३) इदा चिदक्तोः (१)।
श्रिये रुक्मो न (१) रौचत उपाके (६) ॥' (ऋ० सं० ३।५।१०।५) [३] कृतिः
_ 'मा कसै० ।। (ऋ० सं० ११८॥२३॥३) इत्युदाहृता । [४] पिपीलिकमध्या
___'पर्येषु प्र०। (ऋ० सं० ॥५॥२२॥१) [५] काविराष्ट्र 'ता विद्वांसा हवामहे वा (1) ता नौ विद्वांसा मन्म वोचेतमच (२), प्रार्चद्दयमानो युवाकुः (३) । (ऋ० सं० ११८२२६३)