________________
काव्यमाला।
उष्णिग्गायत्रौ जागतश्च । ३ । १८ ॥ यत्र गायत्रावष्टाक्षरौ पादौ, जागतश्च द्वादशाक्षरः, एवं त्रिभिः 'उष्णिग्' नाम छन्दो भवति । अत्र च क्रमो न विवक्षितः । पादसंख्यामानं विधीयते ॥
ककुम्मध्ये चेदन्त्यः । ३ । १९॥ गायत्रयोः पादयोर्मध्ये जागतश्चेत्पादो भवति, तदेयम् उष्णिक् ‘ककुप्'संज्ञां लभते। यथा
['युष्माकै मा रथाँ अनु (१) मुदे दधे मरुतो जीरदानवः (२)।
वृष्टीचावो यतीरिव (३) ॥' (ऋग्वेदे-अं० ४ अ० ३ व० ११ मं०५)] पुरउष्णिकपुरः । ३ । २०॥ स एव पादो जागतश्चेत् प्रथमो भवति, गायत्रौ च परतः, तदा 'परउष्णिक्' नाम भवति । यथा
"अप्स्वन्तरमृतमप्सु भेषज (१) मपामुत प्रशस्तये (९)। देवा भवत वाजिनः (१) ॥' (ऋग्वेदे-अ० १ अ० २ व० ११ मं० ४) परोष्णिक्परः । ३।२१॥ एवं जागतः पादः परतश्चेद्भवति, पूर्वी च गायत्रो, तदा 'परोष्णिक्' नाम च्छन्दो भवति ।
'उष्णिग्गायत्री जागतश्च' (पि० सू० ३।१८) इत्यनेन गतार्थमेतत् विशेषसंज्ञाभिधानार्थं पुनरुच्यते । प्रथमसूत्रे (पि० सू० ३।२०) उष्णिग्ग्रहणमधिकारार्थम् ॥
प्रातिशाख्येऽन्यदपि मेदद्वयं दृश्यते-'अष्टको दशकः सप्तको विद्वांसाविति सा भुरिक् ।' 'स नो वाजेषु पादौ द्वौ जागतौ द्विपदोच्यते।'(पटलः १६ सू० १७,२३) इति । आद्या यथा-- -
'विद्वांसा विदुः पृच्छे (१) दविद्वानित्थापरो अचेताः (१)।
नूचिक्षु मर्ते अकौं (३)॥' (ऋ० सं०. १।८।२२।२) कात्यायनस्त्विमां ककुभमुक्तवान् । द्वितीया यथा'स नो वाजेष्वविता पुरूवसुः (१) पुरस्थाता.मघवा वृत्रहा मुंवत् (२)॥'
(ऋ० सं० ६४३३३) कचिदष्टाक्षरपादद्वयवत्यपि द्विपदा गायत्री दृश्यते । यथा'ते सुतासो मदिन्तमाः (१) शुक्रा वायुमंसूक्षत (२)॥'
(ऋ० सं० २।१६।३) एवं शामती-ककुभत्यादयोऽन्येऽपि गायत्रीभेदास्तत्र तत्र वक्ष्यमाणा इहानुसन्धेयाः । देव्यादयस्तुका एवेति दिक् ।
१ अप्सु अन्तः' इति व्यूहात् पादपूर्तिः ।