SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १ अध्यायः छन्दःशास्त्रम् । ननु 'ग्लिति समानी' (पि. सू० ५।७) इत्यादीनां पादान्ते वर्तमानस्य हखस्य गुरुत्वं न दृश्यते । नैष दोषः । सर्वत्र पादान्ते वर्तमानस्य हखस्य गुरुत्वमुत्सर्गसिद्धम् । तच लकारश्रुत्यापवादेन वाध्यते । यथा-'ग्लिति समानी' (पि• सू० ५।७) 'गीत्यार्या लः' (पि० सू० ४।४७) इत्यादौ। सामान्येन विशेषस्य बाधः कस्य न संमतः ? तस्मात्कुचोद्यमेतत् ॥ केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते । “ल्गिति प्रमाणी' (पि. सू० ५।८) इत्यादीनामन्ते गुरुत्वमेव, 'समानी' (पि. सू०५।७) इत्यादीनामन्ते लघुत्वमेव । तस्मादियं व्यवस्था प्रमाणम् । शेषाणामिच्छया गुरुत्वं लघुत्वं चेत्यनुपपनम् , विकल्पस्याप्रस्तुतत्वात्कस्य व्यवस्थेति न विद्मः ॥ . ननु केनाप्युक्तम् ‘वा पदान्ते ग्वक्रः' (वृ. र. ११९) इति गुरुत्वम् । सत्यमुक्तम्, दुरुक्तं हि तत् । 'वान्ते ग्वक्र इति प्रोक्तं यैश्च श्वेतपटादिभिः । तदुत्सर्गापवादेन बाधस्वैविधारितः ॥' इच्छया गुरुत्वं लघुत्वं नोपपद्यते। कस्येच्छया ? किं शास्त्रकारस्य ? एवेर्वा ? । न तावदाद्यः पक्षः, सूत्रेवदर्शनात् । नापि द्वितीयः, कवेरपीच्छायां व्यवस्वाभावात् । को जानाति कस्य कीदृशीच्छति ॥ __ अन्ये त्वाहुः-ननु पदान्ते वर्तमानस्य ह्रखस्य पाणिनिना गुरुतंज्ञा न कृता। तेनोक्तम् 'संयोगे गुरु' (पा० सू० १।४।११), 'दीर्घ च' (पा० सू० १।४।१२) इति । नायं संयोगादिर्न च दीर्घः । तस्मात् 'गन्ते' इति सूत्रमयुक्तम् ॥ अत्रोच्यते-पाणिनिना खशास्त्रप्रयोजनार्थ गुरुसंज्ञा कृता। 'गुरोश्व हलः' (पा० सू० ३।३।१०३) इत्यकारप्रत्ययो यथा स्यात्-कुण्डा, हुण्डा; (इत्यादीनाम् । तथा-) ईहाञ्चके, ऊहाचके, इत्येवमादीनाम् ‘इजादेश्च गुरुमतोऽनृच्छः' (पा० सू० ३३१३३६) . त्याम्प्रत्ययश्च । पदान्ते वर्तमानस्य लघोगुरुत्वातिदेशे पाणिनेः प्रयोजनमेव नास्ति । किंचानुखारादिपूर्वस्य वर्णस्य 'बलं' 'संपदि'त्यादौ स्थितस्य गुरुसंज्ञा पाणिनिना न कृता, क्रिमेतावतान्यैरपि न कर्तव्या ?। तस्मात्सूक्तमिदम् 'गन्ते' इति । गप्रदेशाः 'गावन्त आपीडः' ( पि० सू० ५।२२) इत्येवमादयः॥ धादिपरः।१।११॥ ध्र इति व्यञ्जनसंयोगस्योपलक्षणार्थमेतत् । ध्र आदिर्येषां ते ध्रादयः। आदिशब्देन यदि हि युक्तपरः श्रममन्तरा लघुरपि प्रभवेचरणान्तरा। अणु वदन्ति न वृत्तविदूषणं तमथ भूषणमेव मनीषिणः ॥' (२०१४-१५) इति । अत एव 'प्राप्तनाभिह्रदमजनमासु' (१०६०) इति माघप्रयोगे हदशब्दमानीय नदशब्दः पठनीय इति दुर्घटवृत्तिकारः। वस्तुतस्तु छन्दोविदां परिभाषया यथा श्रुतपाटेऽपि तत्र न गुरुत्वम् ॥ इति 'संयोगे गुरु' (१४११) सूत्रे सिद्धान्तकौमुदीविलासः। .श्वेतपटादिभिर्जेनविशेषैरित्यर्थः. २. गुरुप्रयत्नोच्चार्योपलक्षणार्थम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy