________________
१ अध्यायः] छन्दःशास्त्रम् ।
धीश्रीस्त्री इत्यनेन गुरुत्रयं संज्ञित्वेनोपलक्षयति, मकारच संज्ञात्वेन । ततश्चायमर्वसर्वगुरोनिकस्य (sss) 'म' इति संज्ञा परिभाष्यते। ध्यादीनामुपादानप्रयोजनमुपरिटावक्ष्यामः । मप्रदेशाः 'विद्युन्माला मौ गौ' (पि.सू. ६६) इत्येवमादयः ॥
वरा सा य । १।२॥ वरासा इत्यनेनादिलघोत्रिकस्य (Iss) 'य' इति संज्ञा परिभाष्यते। यप्रदेशाः'भुजङ्गप्रयातं यः' (पि. सू० ६३६) इत्येवमादयः ॥
का गुहार।१।३॥ कागुहा इत्यनेन मध्यलघोस्निकस्य (s) 'र' इति संज्ञा परिभाष्यते। रप्रदेशाः 'सम्विणी रः' (पि. सू० ६।३०) इत्येवमादयः॥
वसुधा स् ।१।४॥ वसुधा इत्यनेनान्यगुरोत्रिकस्य (us) स' इति संज्ञा परिभाष्यते। सप्रदेशाः 'तोटकं सः' (पि० सू० ६।३१) इत्येवमादयः ॥
अफलमुदासीनाभ्यां शत्रुसखिभ्यां च तद्भवति । शत्रुभ्यां तु विरोधो नायकनाशश्च संप्रोकः ॥ शत्रूदासीनाभ्यां हानिरुदासीनभृत्याभ्याम् । अखायत्तिर्गदिता, श्रीनाशः शत्रुभृत्याभ्याम् ॥ क्षयवैरिभयप्राप्तिर्भक्त्युदासीनशत्रुभ्याम् ।। मित्रोदासीनाभ्यामश्रीरिति गणफलान्याहुः ॥' हजधा हितजीवनधनहरा नृपक्रोधकृद्रेफः तनुपीडारुग्वणदा घनखा भ इहातिदूरगतिदायी ॥
गणा दुष्टफला राद्या दग्धवर्णाश्च हादयः।
शुभश्लोकमुखेनैते प्रयोक्तव्याः शुभार्थिभिः ॥ अत्रापवाद उक्त उमापतिना
'गणफलं हि कलाविषयेष्वलं विभुतया तदुपायितया तया। वदति कश्चिदितीह न वर्णगे न मृत पुंसि न पुंसि च केचन ॥ गणफलं न हि काव्यसमूहगे वदति कश्चिदयो सुरवाचके।
शिवपरे न परत्र विचारणा लिपिगणेषु फलाफलयोखतः ॥ इति अन्यत्रापि
'देवतावाचकाः शब्दा य च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥' इति.